________________
203
THE WAR OF THE CROWS AND THE OWLS. Book III.
Tale vill: Self.sacrificing dove.
तस्य तद् वचनं श्रुत्वा । प्रत्युवाच विहंगहा । कपोत खलु शीतं मे । हिमत्राणं विधीयताम् ॥१४३॥ स गत्वाङ्गारकर्मान्तम् । आनयाम आस पावकम् । ततः शुष्केषु पर्णेषु । तम आशु समदीपयत् ॥१४४॥ प्रतापयस्व विश्रब्धं । स्वगात्राण्य् अत्र निर्भयः। न चास्ति विभवः कश्चिद् । येन ते *नाशये क्षुधम् ॥१४५॥ 6 सहस्रं बिभर्ति कश्चिच् । छतम् अन्यो दशपरः । मम त्व् अकृतपुण्यस्य । क्षुद्रस्यात्मापि दुर्भरः ॥१४६॥ एकस्याप्य अतिथेर् अन्नं । यः प्रदातुं न शक्तिमान । तस्यानेकपरिक्लेशे । गृहे किं वसतः फलम् ॥१४७॥ तत् तथा साधयाम्य एतच् । छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि । नास्तीत्य अर्थिसमागमे ॥१४॥ 12 . स निनिन्द किलात्मानं । न तु तं लुब्धकं पुनः । उवाच तर्पयिये त्वां । मुहूर्त प्रतिपालय ॥१४९॥ एवम उक्त्वा स धर्मात्मा । प्रहृष्टेनान्तरात्मना । तम् अग्निं संपरिक्रम्य । प्रविवेश स्ववेश्मवत् ॥१५०॥ ततस तं लुब्धको दृष्ट्वा । कृपया भृशपीडितः । कपोतम अग्नौ पतितं । वाक्यम् एतद् अभाषत ॥१५१॥ 18 यः करोति नरः पापं । न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापम् । आत्मनैव हि भुज्यते ॥१५२॥ सो ऽहं पापमतिश चैव । पापकर्मरतिः सदा । पतियामि महाघोरे । नरके नात्र संशयः ॥१५३॥ नूनं मम नृशंसस्य । प्रत्यादर्शस तु दर्शितः । प्रयच्छता स्वमांसानि । कपोतेन महात्मना ॥१५४॥
THEHREATRNA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org