________________
197
THE WAR OF THE CROWS AND THE OWLS. Book III.
Frame-story: War of crows and owls.
ष्यामि । इत्य् अभिधाय तस्योपरि समारुह्य लघुभिश चञ्चप्रहरिः प्रहृत्याहृतरुधिरालोडितं कृत्वा तदुपदिष्टम् ऋष्यमूकपर्वतं सपरिवारो जगाम।
एतस्मिन्न अन्तरे कृकालिकया *शत्रुप्रणिधिभूतया तत् सर्वं मेघवर्णस्यामात्यव्यसनम् : उलूकाधिपतेर् गत्वा निवेदितम् । अथोलकाधिपो ऽपि तद् आकास्तमनवेलायां सपरिवारो वायसवधार्थ कृतप्रयाणकः प्रोवाच । अहो। त्वर्यतां त्वर्यताम् । भीतः शत्रु: पलायनपरः पुण्यैर् लभ्यते । उक्तं च।
शत्रोः पलायने छिद्रम। एकम् अन्यत्र संश्रयम्।
कुर्वाणो जायते वश्यो। व्यग्रत्वे राजसेविनाम् ॥११३॥ एवं ब्रवाणाः समन्तान् न्यग्रोधपादपाभिमुखं प्रस्थिताः। यावन न कश्चिद वायसो दृश्यते। तावद् वृक्षशाखाम् अधिरुह्य *हृष्टमना वन्दिभिः स्तूयमानो ऽरिमर्दनः प्रोवाच । अहो। ज्ञायते तेषां मार्गक्रमणम् । कतमेन मार्गेण ते नष्टाः । यावद् दुर्ग नाश्रयन्ति । तावद् । एव पृष्ठतो गत्वा व्यापादयामि।
12 ____ अथैतस्मिन प्रस्तावे स्थिरजीवी चिन्तयाम आस । यद्य् एते शत्रवोऽनुलब्धास्मवृत्तान्ता यथागतम् एव यान्ति । ततो मया न किंचित् कृतं भवति । उक्तं च ।
अनारम्भो हि कार्याणां। प्रथमं बुद्धिलक्षणम्।
प्रारब्धस्थान्तगमनं । द्वितीयं बुद्धिलक्षणम् ॥११४॥ तद वरम् अनारम्भः । न चारम्भविघातः । तद अहम् एतान शब्द संश्राव्यात्मानं दर्शयामि । इति विचार्य मन्दं मन्दं शब्दम् अकरोत् । तं च श्रुत्वा त उलकास 18 तद्धार्थम् अभ्युद्यताः । स्थिरजीविनाभिहितम् । अहो। अहं मेघवर्णमन्त्री स्थिरजीवी नाम मेघवर्णेनेवेदृशीम अवस्थां नीतः। तन् निवेद्यताम् आत्मस्वामिनः । तेन सह बहु वक्तव्यम् अस्ति । अथ तैर् आवेदित उलूकराजः सविस्मयो बहुव्रणकिणाङ्कितस्य 21 समीपं गत्वा प्रोवाच । भोः । कथम् एतां दशां गतोऽसि । तत् कथ्यताम् । स्थिरजीवी प्राह । देव । श्रूयताम् । अतीतदिवसे युष्माभिर् व्यापादितान अनेकवायसान् दृष्ट्वा कोपशोकाकुलमतिः स दुरात्मा मेघवर्णो युष्मदुर्ग प्रति चलितः । ततो मयाभिहितम् । A न युक्त भवतस् तं प्रति गन्तुमा यतो बलवन्त एते। होनबलाश च वयम्। उक्त च।
बलीयसा हीनबलो विरोधं न भूतिकामो मनसापि कुर्यात् । न वध्यते ऽत्यन्तबलो हि यस्माद्
एकान्तनाशो ऽस्ति पतङ्गवृत्तेः ॥११५॥ तत् तस्योपप्रदानेन संधिर् एव युक्तः । तच् छ्रुत्वा दुर्जनजनप्रकोपितेन त्वत्पक्षपातिनं 80 माम आशङ्कमानेनेयं दशा मे विहिता। तत् तव पादाः सांप्रतं शरणं मे । किं बहुना। यावद् अहं प्रचलितुं शक्तः । तावत् त्वां तस्यावासे नीत्वा सर्ववायसक्षयं विधास्यामि।
इति श्रुत्वारिमर्दनः पितृपितामहकमागतमन्त्रिभिः सार्ध मन्त्रयां चके । तस्य च पञ्च 88
upa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org