________________
196
Book III. THE WAR OF THE CROWS AND TIE OWLS. Tale v: Serpent and ants.
Frame story.
॥ कथा ५ ॥
अस्ति कस्मिंश्चिद् वल्मीके महाकायः कृष्णसर्पो ऽतिदर्पो नाम। स कदाचिद् बिलानुसारमार्गम उत्सृज्यान्येन लघुहारेण निष्क्र- : मितुम आरब्धः । निष्कामतश च तस्य महाकायत्वाद् दैववशाच् च लघुविवरतया शरीरे व्रणः समुत्पन्नः । अथ व्रणशोणितगन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्नो व्याकुलीकृतश च । कति व्यापादयति । कति वा ताडयति । अतिप्रभूतत्वाद् विस्तारितबहुव्रणाभिः क्षतसर्वाङ्गो ऽतिदर्पः पञ्चत्वम उपगतः ॥
अतो ऽहं ब्रवीमि । बहवो न विरोद्धव्याः । इति । अपरं च । देव । अस्ति किंचिन् । मे वक्तव्यम् । तच् चावधार्य विचार्य चानुष्ठेयम् । मेघवर्ण आह । तात । ब्रूहि । यत् ते हृदि स्थितम् । स्थिरजीव्य् आह । वत्स । आकर्णय । तर्हि । सामादीन् अतिक्रम्य यः पञ्चमोपायो मया निरूपितः । यथा । मां विपक्षीकृत्यातिनिष्ठुरवचनैर् निर्भर्त्य विप- 12 क्षप्रयुक्त*प्रणिधीनां प्रत्ययार्थम् आहृतरुधिरैर् आलिप्यास्यैव न्यग्रोधस्थाधस्तात प्रक्षिप्य*णूंमूकपर्वते गम्यताम् । तत्रैव च सपरिवारेण भवता स्थातव्यम् । यावद् अहं समस्तान रिपून सुप्रणीतेन विधिना विश्वास्य ज्ञाततदुर्गमध्यो दिवसान्धान व्यापादयामि । अनु- 15 मानतोऽपि ज्ञातं मयेदम् । यत् तदीयदुर्गम अपसाररहितं केवलं भविष्यति । उक्तं च।
अपसारसमायुक्तं । नयज्ञैर् दुर्गम् उच्यते।
अपसारपरित्यक्तं । दुर्गव्याजेन बन्धनम् ॥ ११०॥ न च त्वया मां प्रति कृपा कार्या । उक्तं च ।
अपि प्राणसमान इष्टान। पालितांल लालितान् अपि ।
भृत्यान युद्धे समुत्पन्ने । पश्येच कुष्कम् इवेन्धनम् ॥ १११॥ तत् त्वयात्र विषये नाहं निषेधनीयः । यतः।
रक्षेद् भृत्यान् यथा प्राणान् । स्वकायम इव पोषयेत् ।
सदैकदिवसस्यार्थे । यत्र स्याद् रिपुसंगमः ॥११२॥ इत्य उक्त्वा तेन सह शुष्ककलहं कर्तुम् आरब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनम् उच्छृङ्खलतया राजानं प्रति जल्पन्तम् आलोक्य तद्वधाय समुद्यता मेघवर्णेनाभिहिताः। अहो। अपसर्पत यूयम् । अहम् एवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करि- 27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org