SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ THE WAR OF THE CROWS AND THE OWLS. Book III. Tale iv: Brahman, goat, and three rogues. Frame-story. कोपस् त्वया न कार्यः । यथेच्छं गम्यताम् ' इति । अथ यावत् किंचिद् अध्वान्तरं गच्छति । तावद् द्वितीयो धूर्तः संमुखम् अभ्येत्योवाच । अहो कष्टं कष्टम् । भगवन् । यद्य् अपि वल्लभो : ऽयं ते मृतवत्सः । तद् अपि स्कन्धम् आरोपयितुं न युक्तः । उक्तं 3 च । यतः । तिर्यश्वं पुरुषं वापि यो मृतं संस्पृशेत् कुधीः । 1 1 पञ्चगव्येन शुद्धिः स्यात् । तस्य चान्द्रायणेन च ॥ १०६ ॥ अथासौ सकोपम् आह । अहो ' किम् अन्धो भवान् ' यत् पश्रुं वत्सं वदसि । सो ऽब्रवीत् । भगवन् मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वम् आत्मरुचितं समाचर । इति । अथ यावत् स्तोकं वनान्तरं गच्छति । तावत् तृतीयो धूर्तो वेषपरिवर्त कृत्वा संमुखम् उपेत्योवाच । भोः ' अयुक्तम् एतत् ' यत् त्वं रासभं 12 स्कन्धारूढं नयसि । उक्तं च । यः स्पृशेद् रासभं मर्त्यस् ' व् अज्ञानाज् ज्ञानतो ऽपि वा । सचेलं स्नानम् उद्दिष्टं । तस्य पापस्य शान्तये ॥ १०७ ॥ तत् त्यज्यताम् अयम् ' यावद् अन्यः कश्चिन् न पश्यति । अथासौ तं पशुरूपं राक्षसं मत्वा भूमौ प्रक्षिप्य भयाद् गृहम् उद्दिश्य प्रपलायितः । ते ऽपि च त्रयो ऽपि मिलित्वा तं पशुम् आदाय 18 यथाचिन्तितं कृतवन्तः ॥ अतोऽहं ब्रवीमि । बहुबुद्धिसमायुक्ताः । इति । अथवा साध्व् इदम् उच्यते । अभिनवसेवकविनयैः । प्राघुणकोक्तेर् विलापिनीरुदितैः । धूर्तजनवचननिकरेर् । इह कञ्चिद् अवञ्चितो नास्ति ॥ १०८ ॥ किं च । दुर्बलैर् अपि बहुभिः सह विरोधो न कार्यः । उक्तं च । बहवो न विरोद्धव्या । दुर्जयो हि महाजनः । 195 स्फुरन्तम् अपि नागेन्द्रं । भचयन्ति पिपीलिकाः ॥ १०९ ॥ मेघवर्ण आह । कथम् एतत् । स्थिरजीवी कथयति । Jain Education International For Private & Personal Use Only är 15 21 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy