________________
Book III. THE WAR OF THE CROWS AND THE OWLS. Tale iv: Brahman, goat, and three rogues.
Frame-story.
बहु बुद्धिसमायुक्ताः । सुविज्ञाना बलोत्कटाः । शक्ता वञ्चयितुं धूर्ता ! छागकब्राह्मणं यथा ॥ १०४ ॥ मेघवर्ण आह । कथम् एतत् । सो ऽब्रवीत् ।
194
॥ कथा ४ ॥
6
1
9
कस्मिंश्चिद् अष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्रपरिश्रमः प्रतिवसति स्म । तेन कदाचिन् माघमासे प्रवाति सौम्या - निले मेघाच्छादितगगने मन्दं मन्दं वर्षति पर्जन्ये पशुयाचनार्थं किंचिद्रामान्तरं गत्वा कश्चिद् यजमानो याचितः । भो यजमान । आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि पशुम् एकम् । अथ तेनापि तस्य शास्त्रोक्तः पीवरः पशुर् दत्तः । तम् अपि समर्थम् इतश चेतश च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः प्रतस्थे । अथ तस्य मार्गेण गच्छतस् त्रयो 12 धूर्ताः क्षुत्क्षामकण्ठाः संमुखा बभूवुः । तैश च तं पीवरपशुं स्कन्धारूढम् अवलोक्य मिथो ऽभिहितम् । अहो ' अस्य पशोर् भक्षणाद् अद्यदिनजो हिमपातो व्यर्थतां नीयते । तद् एनं 15 वञ्चयित्वा पशुम् आदाय शीतत्राणं कुर्मः । अथ तेषाम् एकतमो वेषप्रावर्तनं विधाय संमुखो भूत्वापमार्गेण तम् आहिताग्निम् ऊचे । भो भो अग्निहोचिन् । किम् एवं जनविरुद्धं हास्यकरम् 18 अनुष्ठीयते यद् एष सारमेयो ऽपवित्रः * स्कन्धाधिरूढो नीयते । उक्तं च ' यतः ।
1
Jain Education International
3
श्वानकुर्कुटचाण्डालाः ' समस्पर्शाः प्रकीर्तिताः ।
रासभोष्ट्राविशेषेण । तस्मात् तान् न तु संस्पृशेत् ॥१०५॥ ततश च तेन कोपाभिभूतेनाभिहितम् । किम् अन्धो भवान् यत् पशोः सारमेयत्वं प्रतिपादयसि । सो ऽब्रवीत् । ब्रह्मन् ' "
"
For Private & Personal Use Only
21
www.jainelibrary.org