SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 192 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale lii: Cat as judge between partridge and hare. Tale i: Birds elect a king. तथा च। पञ्च पश्वनृते हन्ति । दश हन्ति गवानृते । शतं कन्यानृते हन्ति । सहस्रं पुरुषानृते ॥९॥ तस्माद् विश्रब्धौ भूत्वा मम कर्णोपालिके स्फुटम् आवेदयतम् । किं बहुना । तथा तेन शुद्रेण तो विश्वासितौ । यथा तदन्तिकम उपगतौ । ततश च समकालम एकः पादेनाक्रान्तः । द्वितीयो १ दंष्ट्राक्रकचेन । एवं दाव् अपि गतप्राणौ भक्षितौ ॥ अतो ऽहं ब्रवीमि । क्षुद्रम् अर्थपतिं प्राप्य । इत्यादि । तद् भवन्तोऽप्य् एनं दिवान्धं क्षुद्रम् अधिपतिं कृत्वा * राथन्धाः सन्तः " शशतित्तिरिमार्गेण यास्यन्ति । इति विचार्य यद् उचितम् । तद् विधीयताम् । अथ तस्य वचनम् आकर्ण्य ' साध्व अनेनाभिहितम्। इत्य् उक्त्वा । भूयो ऽपि नृपार्थे समेत्यान्योन्यं मन्त्रयियामहे । इति 12 ब्रुवाणाः सर्वपक्षिणो यथागतं जग्मुः । केवलं भद्रासनोपविष्टो ऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च । कः को ऽब । भोः। किम् अद्याप्य अभिषेको न क्रियते । इति श्रुत्वा 15 कृकालिकयाभिहितम् । भद्र । कृतस ते ऽभिषेकविनोपायो वायसेन । गताश च ते विहगा यथेष्टं दिक्षु । केवलम् अयम एव वायस एकाकी केनापि हेतुना तिष्ठति । तत् त्वरितम् उत्तिष्ठ । 13 येन त्वां स्वाश्रयं प्रापयामि । तच् छ्रुत्वा सविषादम उलूकः प्राह । भो दुष्टात्मन । किं मया ते ऽपकृतम् । येन राज्याभिषेको विनितम् त्वया । तद् अद्यप्रभृत्य आवयोर् वैरम् । उक्तं च। । रोहति सायकविद्धं । वनं परशुना हतम् । वाचा *दुरुक्तं बीभत्सं । न प्ररोहति वाकृतम् ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy