SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 191 Tale ill: Cat aa judge between partridge and hare. प्राह । ननु स्वभावशत्रुभूतो ऽयम अस्माकम् । तद् दूरे स्थिती पृच्छावः । तत उभाव् अपि तं प्रष्टुम् आरब्धौ । भोस् तपस्विन धर्मदेशक । आवयोर् विवादो वर्तते । तद् धर्मशास्त्रेणावयोर् : निर्णयं देहि । यो हि मिथ्यावादी भवति । स ते भक्ष्यः । इति । सो ऽब्रवीत् । भद्रौ । मा मैवं वदतम् । निर्विणो ऽहं नरकमार्गप्रदर्शयितुर् हिंसाकर्मणः । उक्तं च । अहिंसापूर्वको धर्मो । यस्मात् सर्वहिते रतः।। ___ यूकामत्कुणदंशादींस । तस्मात् तान अपि रक्षयेत् ॥१४॥ हिंसकान्य अपि भूतानि । यो हिनस्ति स निर्गुणः। ५ स याति नरकं घोरं । किं पुनर् यः शुभानि च ॥५॥ एते ऽपि । ये यज्ञकर्मणि पशून व्यापादयन्ति । ते ऽपि मुग्धाः परमार्थ श्रुतेर् न जानन्ति । यच् च केनचिद् उक्तम् । अजैर् 12 यष्टव्यम् । इति । तबाजा बीहयः सप्तवार्षिका उच्यन्ते । न जायन्ते। } इत्य् अन्वर्थबलात् । उक्तं च । है वृक्षांश छित्वा पशून हत्वा । कृत्वा रुधिरकर्दमम्। 15 यद्य् एवं गम्यते स्वर्गे । नरके केन गम्यते ॥९६॥ तन नाहं भक्षयिष्यामि । किं त्व् अहं वृद्धो दूराद् युवयोर् भाषान्तरं न सम्यक शृणोमि । तत् कथं जयपराजयं करिष्यामि । एवं 18 ज्ञात्वा *समीपवर्तिनी भूत्वा मम न्यायं निवेदयतम् । येन विज्ञा. तविवादपरमार्थ *वचो वदतो मे परलोकबाधा न भवति । उक्तं च । मानाद् वा यदि वा लोभात् । क्रोधाद् वा यदि वा भयात् । । यो न्यायम् अन्यथा ब्रूते । स याति नरकं नरः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy