________________
THE WAR OF THE CROWS AND THE OWLS. Book III.
Tale iii: Cat as judge between partridge and hare.
189
वापीकूपतडागानां । गृहस्योपवनस्य च ।
सामन्तप्रत्यया सिद्धिर् । इत्य एवं मनुर् अब्रवीत् ॥३॥ तथा च।
गृहक्षेचविवादेषु । कूपोपवनभूमिषु। ___ समुत्पन्ने विवादे तु । सामन्तात् प्रत्ययो भवेत् ॥४॥ अथ शशकः प्राह । मूर्ख । किं त्वया न श्रुतं स्मृतिवचः । । यद् आह।
प्रत्यक्षं यस्य यद् भुक्तं । क्षेत्राचं दश वत्सरान ।
प्रमाणं नाक्षराण्य् अत्र । साक्षी वा तस्य तद् भवेत् ॥५॥ " तथा । मूर्ख । त्वया न श्रुतं नारदस्य मतम् ।
मानुषाणां प्रमाणं स्यात् । भक्तिर् वै दशवार्षिकी। विहगानां तिरश्चां च । यावद् एव समाश्रयः ॥१६॥ तद् यद्य् अपि तवायम् आश्रयः । तथापि शून्यः सन् मयाश्रितः। इति मदीय एवायम् । तित्तिरिः प्राह । भोः । यदि स्मृति प्रमाणीकरोषि । तद् आगच्छ मया सह । स्मार्तान पृच्छावः । तैर् 15 दत्तं तव मम वा भवतु । तथा । इति प्रतिपद्य व्यवहारप्रत्ययार्थम अभिप्रस्थितौ । अहम् अपि कौतुकात तयोर् एव पृष्ठतो लग्नः। पश्याम्य अत्र किं भविष्यति । इति । अथ नातिदूरं गत्वा शशकस 18 तित्तिरिम अपृच्छत् । भद्र । को नामावयोर् व्यवहारं द्रक्ष्यति । सो ऽब्रवीत् । नन्व् अयं प्रबलमारतोडूतसलिलचलतरङ्गभङ्गसंघट्टजनिकलकलारवाया भगवत्या गङ्गायाः पुलिने गतस । तपोनियमव्रतयोगसंस्थितः सत्वजातानुकम्पो दधिकों नाम मार्जारः । इति । अथ दुष्वा च तं भयप्रणोदितान्तरात्मा शशकः पुनर् अब्रवीत् । अलम अनेन शुद्रेण । उक्तं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org