________________
188
Book III. THE WAR OF THE CROWS AND THE OWLS.
Tale iil: Cat as judge between partridge and hare.
॥ कथा ३॥ अस्ति । कस्मिंश्चिद् वृक्षे पुरा स्वयम् अहम अवसम् । अथ तस्यैव वृक्षस्याधस्तात् तितिरिपक्षी प्रतिवसति । तत आवयोर् एकावा- : सगुणाद् अभेद्या प्रीतिर उत्पन्ना। प्रतिदिनं च कताहारविहार. योः प्रदोषसमये ऽनेकसुभाषितपुराणादिकाप्रश्नप्रहेलिकादानादिभिर् विनोदैः कालोऽतिवर्तते । अथ कदाचिद् अन्यैः पक्षिभिः । सह तितिरिः पक्वशालिग्रायं कम् अपि देशं प्राणयात्रार्थ गतो है वेलायां न समायातः । तद् अहम् अपि तद्वियोगदुःखितश चिन्तितवान् । अहो । किम अद्य मम मिचं तितिरिर् नायातः। तत् किं केनापि पाशेन बद्धो व्यापादितो वा भविष्यति । इति मम व्याकुलितमनसो बहूनि दिनानि व्यतिचक्रमुः । अथ कदाचित् तत्रैव कोटरे ऽस्तसमये शीघ्रगो नाम शशकः प्रविष्टः । 12 मयापि तित्तिरिसमागमनिराशेन न निवारितः । अथान्यस्मिन्न अहनि स तितिरिः शालिभक्षणाद् अतीव पीवरतनुः स्वाश्रयं संस्मृत्य तत्रैव समायातः । युक्तं चैतत् ।
15 है न तादृग् जायते सौख्यम् । अपि स्वर्गे शरीरिणाम। है दारिद्रये ऽपि हि यादृक् स्यात् । स्वदेशे स्वगृहे पुरे ॥१२॥ अथासो कोटरगतं शशकं दष्ट्रा साक्षेपम् इदम आह । भो भोः 18 शशक । न त्वया सुन्दरं कृतम् । यन् ममावसथे प्रविष्टो ऽसि । तच् छीघ्रम् अपगम्यताम् । सो ऽब्रवीत् । मूर्ख । किं न ते विदितम् । यद् उपस्थानमात्रभोग्य एवावासः । तितिरिर् अब्रवीत् ।। । यद्य एवम् । तर्हि । प्रातिवेश्मिकाः पृच्छचन्ताम् । उक्तं च धर्मशास्त्रे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org