________________
THE WAR OF THE CROWS AND THE OWLS. Book III.
187 Tale il: Elephant and rabbit and moon.
Tale i: Birds elect a king.
दर्शय पन्थानम् । येनाहं तत्र गत्वा भगवन्तं चन्द्रमसं क्षमयामि । शशको ऽब्रवीत्। आगच्छतु भवान एकाकी । येनाहं तं दर्शयामि। है इत्य् उक्ला चन्द्रसरो गत्वा स्फुरितप्रभामण्डलं रुचिरच्छायं विपुलगगनतलोल्लासितग्रहसप्तर्षितारकगणपरिवृतं संपूर्णकलाकलापाखण्डमण्डलम् उदकप्रतिबिम्बित रात्री चन्द्रमसम् अदर्शयत् । असाव् अपि दृष्ट्वा । शुचिर् भूत्वा देवताप्रणामं करोमि । इति । पुरुषहयबाहुग्राह्यप्रमाणं करम् अम्भसि क्षिप्तवान । अथ संक्षुभितोदकवशाद इतश चेतश च चक्रारूढ इव भ्रमति चन्द्रमण्डले चन्द्रसहस्रम् अपश्यत् । अथ विजयः सुतराम उद्विग्रहृदयः प्रति- " निवृत्य हस्लिराजम अब्रवीत् । देव । कष्टं कष्टम् । भवता * द्विगुणम् आरोषितश चन्द्रः । स आह । केन हेतुना भगवांश चन्द्रो मयि प्रकुपितः । विजयो ऽब्रवीत् । स्पर्शनाद् अस्य पानीयस्य । 12 अथ तच छुत्वा संलीनकों गजपतिर अवनितलनतशिरसा प्रणम्य भगवन्तं चन्द्रमसं क्षमयाम आस । भूयश च विजयं प्रत्य एवम् आह । भद्र। अशेष कार्येष्व् अपि मवचनाद् भगवांश 15 चन्द्रो ममोपरि प्रसादयितव्यः । न चाहं पुनर् इहागमिष्यामि। इति । एवम उत्ला यथागतम एव प्रायात् ॥ __अतो ऽहं ब्रवीमि । व्यपदेशेन महताम् । इति । अपि च । 18 क्षुद्रो ऽयं दुरात्मा पापबुद्धिः । अशक्तश च प्रजां पालयितुम। तद् दूरे तावद् अस्माद् रक्षणम् । यावद् इत एव भयम् अपि संभाव्यते । उक्तं च।
क्षुद्रम् अर्थपतिं प्राय । कुतो विवदतां सुखम्। उभाव् अपि क्षयं प्राप्तौ । मार्जाराच् छतितिरी ॥१॥ पक्षिण ऊचुः । कथय । कथम् एतत् । वायस आह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org