________________
186
Book III. THE WAR OF THE CROWS AND THE OWLS.
Tale ii: Elephant and rabbit and moon.
अब्रवीत् । को भवान । शशक आह । दूतो ऽहम । इति । स आह । केन भवान् प्रेषितः । दूत आह । भगवता चन्द्रेण । गजपतिः पृष्टवान । कथय कार्यम् । इति । शशकः कथयति । जानात्य *एव भवान् । यथार्थवादिनो दूतस्य न दोषः करणीयः। दूतमुखा हि राजानः सर्व एव । उक्तं च । है उद्धृतेष्व् अपि शस्त्रेषु । बन्धुवर्गवधेष्व् अपि । है परुषाण्य् अपि जल्पन्तो । वध्या दूता न भूभुजा ॥७९॥ सो ऽहं भवन्तं चन्द्राज्ञया ब्रवीमि । कथं नाम । मनुष्य । आत्मानं परं चापरिच्छिद्य शक्तितः परापकारैर् वर्तितः । इति । उक्तं च। "
परेषाम आत्मनश चैव । यो ऽविचार्य बलाबलम्। है कार्यायोतिष्ठते मोहाद् । आपदः स समीहते ॥१०॥ तत् त्वयास्मन्नामप्रसिद्धं चन्द्रसरो ऽन्यायेन धर्षितम् । तच चा- 12 स्मदीयाङ्कलालितशशकेन्द्रजातीया अस्मत्संरक्षणीयाः शशका व्यापादिताः। तद् एतद् अयुक्तम् । अन्यच च । किं न ज्ञातवान असि । यल् लोके प्रख्यातनामास्मि । शशाङ्कः । इति । तत् किं 15 बहुना प्रलपितेन । यदि त्वम् अस्माद् व्यापारान न निवर्तसे। ततो ऽस्मत्सकाशान् महान्तम् अनर्थ प्राप्स्यसि । इति । यदि त्वम् अद्यदिवसाद् आरभ्य निवर्तसे । तत् ते महान विशेषो 18 भविष्यति । यत्कारणम् । अस्मासक्तया ज्योत्स्नयाप्यायितशरीरः सपरिवारः सुखेनास्मिन वने यथेष्टचेष्टं विहरियसि । अन्यथास्मत्कृतरश्मिसंरोधाद् धर्मेण परितापितशरीरः सपरिवारो विनाशम् एथसि । इति श्रुत्वा हस्तिराजो ऽतीवक्षुभितहृदयश चिरं । विचिन्याब्रवीत् । भद्र । सत्यम् । मयापकृतं भगवतश चन्द्रमसः । सो ऽहम् अधुना नेन सह विरोधं न करिथामि । तद् आशु 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org