SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ TIIE WAR OF THE CROWS AND THE OWLS. Book III. 183 Tale i: Birds elect a king. Tale il: Elephant and rabbit and moon. - उक्तं च । व्यपदेशेन महतां । सिद्धिः संप्राप्यते परा। शशिनो व्यपदेशेन । वसन्ति शशकाः सुखम् ॥७२॥ पक्षिणः पृच्छन्ति । कथम् एतत् । वायसः कथयति । ॥ कथा २॥ } *कस्मिंश्चिद् वनोद्देशे चतुर्दन्तो नाम हस्तिराजो ऽनेकगजैः परिवृतः प्रतिवसति स्म । तस्य च गजयूथं परिपालयतः कालो ऽतिवर्तते । अथ कदाचिद् द्वादशवार्षिक्य अवृष्टिः संजाता । यया तडागदपत्वलसरांसि शोषम् उपगतानि । अथ तैः समस्तगजैः । स यूथाधिपतिः प्रोक्तः । देव । पिपासाकुलाः कलभाः केचिन मृतावस्थाः सन्ति । मृताश चापरे । तच चिन्यतां कश्चित् पिपासापनयनायोपायः । ततस तेनाष्टास्व् अपि दिखूदकान्वेषणाय 12 वेगचण्डानुचराः प्रेषिताः । अथ ये पूर्वदिग्भागे गताः । तैर् उपलब्धं मुनिनिचयसंनिकृष्टे ऽध्वनि हंसंसारसंकुररकारण्डवंचक्रवाकबलाकाजलचरोपशोभितं विविधतरुकुसुमभरावन शाखा- 15 किसलयनिकरान्वितं पादपैर् अलंकृतोभयतट पवनतरलतटस्खलितविमलजलोर्मिसंघटुंजायमानफेननिकरोपसेवितपारं गजपतिसलिलावगाहनोत्पतितमधुपनिधीतकरटतटव्युतमदसलिलवा- 18 सितजलं तटरूहतरुदलनिकरातपर्वशतसततनिवारिततरणितापं मज्जपुलिन्दयुवतिपृथुजघननितम्बस्तनतटाघातव्यावर्तितवीचिनिचयविरचितंगम्भीररवं विमलजलसंपूर्ण प्रोत्फुल्लकमलवनगहनो- 4 पशोभितम् । किं बहुना । व्योमैकदेशपरिमाणं चन्द्रसरो नाम सरः । तच् च दृष्ट्वा वरिततरम आगत्य निवेदितं हस्तिराजाय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy