SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 182 Book III. THE WAR OF TIIE CROWS AND TIIE OWLS. Tale i: Birds elect a king. अन्यच् च । बहुधा बहुभिः सार्ध । चिन्तिताः सुनिरूपिताः।। न कथंचिद् विलीयन्ते । विवद्भिर् योजिता नयाः ॥६॥ ४ इति विचिन्य पक्षिणस तं वायसं प्रत्य् आहुः । भोः । नास्ति कश्चिद् विहंगमानां राजा । तद् अस्यैवोलूकस्य सकलविहगराज्याभिषेकः समस्तपक्षिभिर् निरूपित आस्ते । तत् त्वम् अपि स्वमतं देहि । समये प्राप्तो ऽसि । अथासौ विहस्य प्राह । भोः ।। न युक्तम् एतत् । हंसमयूरकोकिलचकोरचक्रवाकहारीतसारसादिषु प्रधानेषु विद्यमानेष्व् अस्य दिवान्धस्य करालवदनस्य यद् अभिषेकः क्रियते । तन न मम मतम । यतः।। *वक्रनासं सुजिह्माक्षं । क्रूरम अप्रियदर्शनम् । अक्रुद्धस्येदृशं वक्तं । भवेत् क्रुद्धस्य कीदृशम् ॥६॥ 12 तथा। 18 स्वभावरौद्रम् अन्युग्रं ' क्रूरम् अप्रियवादिनम्।। उलूकं नृपतिं कृत्वा । का नु सिद्धिर् भविथति ॥६९॥ 15 अपरम । वैनतेये स्वामिनि सति किम् अनेन प्रयोजनम् । यछ् अपि गुणवान भवति । तथाप्य एकस्मिन सति नान्यो भूपः प्रशस्तः । उक्तं च ।। एक एव हितार्थाय । तेजस्वी पार्थिवो भुवः। युगान्त इव भास्वन्तो । बहवो ऽच विपतये ॥७०॥ तत् तस्यैव नाना यूयं परेषाम अगम्याः । उक्तं च । यतः। 1 गुरूणां नाममात्रे ऽपि । गृहीते स्वामिसंभवे । दुष्टानां पुरतः क्षेमं । तत्क्षणाद् एव जायते ॥७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy