________________
THE WAR OF THE CROWS AND THE OWLS. Book III.
181
Tale i: Birds elect a king.
अरक्षितारं राजानं । भार्यां चाप्रियवादिनीम्। यामकामं च गोपालं । धनकामं च नापितम् ॥६५॥ युग्मम्॥ तच चिन्तनीयो ऽन्यः कश्चिद् विहंगमानां राजा । अथ तैर् : भद्राकारम् उलूकम् अवलोक्य सर्वैर् अभिहितम् । एष कौशिको ऽस्माकं राजा भवतु । इति । तद् आनीयतां नृपाभिषेकोचितः समस्तवस्तुसंभारसारः । अथानीतेषु तीर्थोदकेषु । प्रगुणीकृते च : चक्राङ्कितासहदेवीप्रभृत्यष्टोत्तरशतमूलिकासंघाते । स्थिरीकृते च सिंहासने । वर्तिते च *सप्तद्वीपसमुद्रभूधरविचित्रे धरणीमण्डले। प्रसारिते च व्याघ्रचर्मणि । पञ्चपल्लवकुसुमाक्षतापूरितेषु कनक- " कलशेषु ' सज्जीकृतेष्व् अर्धेषु । पठन्सु वन्दिमुख्येषु । चतुर्वेदोच्चारणचतुरेषु पठत्सु विप्रेषु । कलमङ्गलगीतप्रधाने युवतीजने । सितसिद्धार्थलाजाक्षतरोचायथितकुसुमशहादिविचित्रे पुरः सज्जी- 12 कृते ऽक्षतपात्रे । उपढौकिने नीराजनादिविधौ । निनदत्सु मङ्गलतूर्येषु । यवारकालंकृतवेदिकामध्ये तिष्ठन्तं सिंहासनम् अभिषेकार्थम् उलूको यावत् समलंकरोति । तावत् कुतो ऽपि 15 क्रूरक्रेङ्कारसंसूचितनिजप्रवेशो वायसस तं समाज समाजगाम । अचिन्तयच् च । अहो । किम् एष सकलपक्षिसमागमो महोसवश च । अथ ते पक्षिणस् तं दृष्ट्वा मिथः प्रोचुः । अयं 18 पक्षिणां मध्ये ऽतिचतुरः श्रूयते । तद् अस्यापि वचनसमवायो गृह्यते । उक्तं च। नराणां नापितो धूर्तः । पक्षिणां चैव वायसः । चतुष्पदां शृगालस तु । श्वेतभिक्षुस तपस्विनाम् ॥६६॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org