SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Book III. उक्तं च । निजस्थानस्थितो ऽप्य् एकः । शतं योद्धुं सहो नरः । शक्तानाम् अपि शत्रूणां । तस्मात् स्थानं न संत्यजेत् ॥ ४१ ॥ तस्माद् दुर्गं दृढं कृत्वा । वीवधासारसंयुतम् । यन्त्रप्राकारपरिखा'शरादिभिर् अलंकृतम् ॥ ४२ ॥ तिष्ठन् यो मध्यगो नित्यं । युद्धाय कृतनिश्चयः । जीवन् स लप्स्यते कीर्ति । मृतः स्वर्गम् अवाप्स्यति ॥ ४३ ॥ बलिनापि न बाध्यन्ते । लघवो ऽप्य् एकसंश्रयात् । विपक्षेणापि मरुता । यथैकस्थानवीरुधः ॥ ४४ ॥ महान् अप्य् एकको वृक्षः । सर्वतः सुप्रतिष्ठितः । प्रसह्येव हि वातेन । शक्यो धर्षयितुं यतः ॥ ४५ ॥ अथ ये संहता वृक्षाः । सर्वतः सुप्रतिष्ठिताः । न ते शीघ्रेण वातेन । हन्यन्ते ह्य् एकसंश्रयात् ॥ ४६ ॥ एवं मनुष्यम् अप्य् एकं । शौर्येणापि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते । हिंसन्ति च ततः परम् ॥ ४७ ॥ तस्माद् अप्य् आकर्ण्य चिरजीविनम् आह । भद्र । त्वम् अप्य् आत्माभिप्रायं वद । 16 सोऽब्रवीत् । देव । षाद्गुण्यमध्ये मे संश्रयः प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च । असहायः समर्थो ऽपि । तेजस्व्य् अपि करोति किम् । निवाते पतितो वह्निः । स्वयम् एवोपशाम्यति ॥ ४८ ॥ यतः । 18 तद् अत्रस्थितेनैव त्वया कश्चित् समर्थः समाश्रयणीयः । यो विपक्षप्रतीकारं करोति । यदि पुनस् त्वं स्थानं त्यक्त्वा प्रयास्यसि । तत् को ऽपि न वाङ्मात्रेणापि सहायत्वं करिष्यति । उक्तं च । THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. • Jain Education International 178 3 For Private & Personal Use Only 6 9 12 वनानि दहतो वहेः । सखा भवति मारुतः । स एव दीपनाशाय । कृशे कस्यास्ति गौरवम् ॥ ४९ ॥ अथवा नायम् एकान्तः । यद् बलिनं समाश्रयेत् । लघूनाम् अपि संश्रयो रचायै 24 भवति । उक्तं च । 21 संपातवान् यथा वेणुर् । निबिडो वेणुभिर् वृतः । न हि शक्यः समुच्छेत्तुं । दुर्बलो ऽपि तथा नृपः ॥ ५० ॥ यदि पुनर् उत्तमसंश्रयो भवति । तत् किम् उच्यते । उक्तं च । महाजनस्य संपर्कः । कस्य नोन्नतिकारकः । पद्मपत्रस्थितं वारि । धत्ते मुक्ताफलश्रियम् ॥ ५१ ॥ तत् । देव । संश्रयं विना न कश्चित् प्रतीकारो भवति । तस्मात् संश्रयः कार्यः । इति मे ऽभिप्रायः । अथैवम् अभिहिते मेघवर्णश् चिरंतनं पितृसचिवं दीर्घदर्शिनं सकलनीतिशास्त्रपारगं 38 27 30 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy