SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ THE WAR OF TIIE CROWS AND THE OWLS. Book III. 177 Frame-story: War of crows and owis. देव । दुष्टः स बलाधिको निर्मर्यादश च । तन न तेन संधिर् विग्रहो वा युक्तः । केवलं यानम् अर्ह स्यात्। उक्तं च । यतः। बलोत्कटेन दुष्टेन । मर्यादारहितेन च। न संधिर विग्रहो नैव । विना यानं प्रशस्यते ॥२९॥ द्विधाकारं भवेद् यानं । भये प्राणप्ररक्षणम् । एकम् अन्यज् जिगीषोश् च । याबालक्षणम् उच्यते ॥३०॥ कार्त्तिके वाथ चैत्रे वा। विजिगीषोः प्रशस्यते । यानम् उत्कृष्टवीर्यस्य । शत्रुदेशे न चान्यदा ॥३१॥ अवस्कन्द प्रदानस्य । सर्वे कालाः प्रकीर्तिताः। व्यसने वर्तमानस्य । शवोश छिद्रान्वितस्य च ॥३२॥ स्वस्थानं सुदृढं कृत्वा । शूरेश चाप्नर् महाबलैः। परदेशं ततो गच्छेत् । प्रणिधिव्याप्तम अग्रतः ॥ ३३॥ तत्र युक्तं प्रभो कर्तुं । द्वितीयं यानम् अद्य वः। न विग्रहो न संधानं । बलिना तेन पापिना ॥३४॥ अपरम् । कार्यकारणापेक्षयापसरणं क्रियते । इति नीतिः । उक्तं च । यद् अपसरति मेषः कारणं तत् प्रहर्तु मृगपतिर् अतिकोपात संकुचत्य उत्पतिष्णुः। हृदयनिहितवेरा गूढमन्त्रप्रचाराः किम् अपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥३५॥ अनु च। बलवन्तं रिपुं दृष्ट्वा । देशत्यागं करोति यः। युधिष्ठिर वाप्नोति । पुनर् जीवन् स मेदिनीम् ॥३६॥ तथा। युध्यते ऽहंकृतिं कृत्वा । दुर्बलो यो क्लीयसा। स तस्य वाञ्छितं कुर्याद् । आत्मनश च कुलक्षयम् ॥३७॥ तद् बलवताभियुक्तस्यापसरणसमयोऽयम् । न संधिविग्रहकालः । इति । अथ तस्य वचनम् आकर्ण्य प्रजीविनम् आह । भद्र । त्वम् अप्य आत्माभिप्रायं वदख। इति । सो ऽब्रवीत् । देव । मम संधिविग्रहयानानि त्रीण्य अपि न प्रतिभान्ति । विशेषतश। च यानम् । यतः। नक्रः स्वस्थानम आसाद्य । गजेन्द्रम् अपि कर्षति । स एव प्रच्युतस तस्माच् । कुनापि परिभूयते ॥३८॥ अनु च। अभियुक्तो बलवता । दुर्गे तिष्ठत् प्रयत्नवान् । तत्रस्थः सुहृदावानं । प्रकुर्वीतात्ममुक्तये ॥ ३९ ॥ यो रिपोर् आगमं श्रुत्वा । भयसंचस्तमानसः। स्वस्थानं संत्यजेत् तत्र । न भूयोऽपि विशेच च सः॥४०॥ māli Aa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy