SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 176 Book III. THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. कूर्मसंकोचम् आसाद्य । प्रहारान् अपि मर्षयेत्। काले काले च मतिमान । उत्तिष्ठेत् कृष्णसर्पवत् ॥१७॥ तथा च। बलिना सह योद्धव्यम् । इति मे नास्ति दर्शनम् । प्रतिवातं न हि धनः । कदाचिद् उपसर्पति ॥१८॥ अथ तच् छ्रुत्वा संजीविनम् आह । भद्र । तवाभिप्रायम् अपि श्रोतुम् इच्छामि । स आह । देव । न ममैतत् प्रतिभाति । यतः स क्रूरो लुब्धो धर्मरहितः । तत् ते विशेषाद् 6 असंधेयः। उक्तं च। *धर्मसत्यविहीनेन । संदध्यान न कथंचन । सुसंधितो ऽप्य असाधुत्वाद् । अचिराद् याति विक्रियाम् ॥१९॥ तस्मात् । तेन सह योद्धव्यम् । इति मे मतिः । उक्तं च। __करो लुब्धो ऽलसो ऽसत्यः । प्रमादी भीरुर अस्थिरः। मूढो योधावमन्ता च । सुखोच्छेद्यो भवेद् रिपुः ॥२०॥ अपरम् । तेन पराभूता वयम् । तद् यदि संधानकीर्तनं करिष्यथ । तद् भूयो ऽपि सकोपो बलं करिष्यति । उक्तं च । चतुर्थोपायसाध्ये तु । रिपो सान्वम अपक्रिया। खेद्यम आमज्वरं प्राज्ञः। को उम्भसा परिषिञ्चति ॥२१॥ शमोपायाः सकोपस्य । तस्य प्रत्युत दीपकाः । सुतप्तस्व सहसा । सर्पिषस तोयबिन्दवः ॥२२॥ *यच् चेष वदति । बलवान् रिपुः । तद् अप्य अकारणम् । उत्साहशक्तिसंपन्नी । हत्वा शत्रु लघुर गुरुम्। यथा कण्ठीरवो नागं । सुसाम्राज्यं प्रपद्यते ॥२३॥ अनु च। मायया शत्रवः साध्या। अवध्याः स्वबलेन ये। यथा स्त्रीरूपम आसाद्य । हता-भीमेन कीचकाः॥२४॥ तथा च। मृत्योर् वोग्रदण्डस्य । राज्ञो यान्ति द्विषो वशम् । सर्वे ते हन्तुम् इच्छन्ति । दयालुं रिपवश च तम् ॥२५॥ प्रयात्य उपशमं यस्य । तेजस तेजस्वितेजसा । वृथा जातेन किं तेन । मातुर यौवनहारिणा ॥२६॥ या लक्ष्मीर् नानुलिप्ताङ्गी। वैरिशोणितकुङ्कमैः। कान्तापि मनसः प्रीतिं । न सा धत्ते मनस्विनाम ॥२७॥ रिपुरक्तेन संसिक्ता । वैरिस्त्रीनेत्रवारिणा । न भूमिर् यस्य भूपस्य । का वाघा तस्य जीविते ॥२८॥ तच् छ्रुत्वानुजीविनम् अपृच्छत् । भद्र । त्वम् अप्य आत्माभिप्रायं वद । स आह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy