________________
175
THE WAR OF THE CROWS AND THE OWLS. Book III.
___ Frame-story: War of crows and owls.
अपृष्टेनापि वक्तव्यं । सचिवेनात्र किंचन । पृष्टेन तु विशेषेण । वाच्यं पथ्यं महीपतेः ॥३॥ यः पृष्टो न ऋतं ब्रूते । परिणामसुखावहम् ।
मन्त्री च प्रियवक्ता च । केवलं स रिपुः स्मृतः॥४॥ तत् सांप्रतम एकान्तम् आसाद्य मन्त्रः कर्तुं युज्यते । ____ अथ स मेघवर्णो ऽन्वयागतान उज्जीविसंजीव्यनुजीविप्रजीविचिरजीविनाम्नः पञ्च । सचिवान् प्रत्येकं प्रष्टुम् आरब्धः । तद् एषाम् आदौ तावद् उज्जीविनं पृष्टवान् । भद्र। एवं स्थिते किं मन्यते भवान् । स आह । देव । बलवता सह विग्रहो न कार्यः । स च बलवान् कालमहर्ता च । तस्मात् संधानीयः । उक्तं च ।
*बलीयसि प्रणमतां। कालेन महताम् अपि ।
संपदो नापगच्छन्ति । प्रतीपम् इव निमगाः ॥५॥ तथा च। सन्यायो धार्मिकश चाढ्यो। भ्रातृसंघातवान बली।
अनेकविजयी चैव । संधेयः स रिपुर् भवेत् ॥६॥ संधिः कार्योऽप्य अनार्येण । विज्ञाय प्राणसंशयम्।
प्राणैः संरक्षितैः सर्व। राज्यं भवति रक्षितम् ॥७॥ तथा च। अनेकयुद्धविजयी । संधानं यस्य गच्छति ।
तत्प्रभावेन तस्याशु । वशं यान्त्य अरयः परे॥८॥ संधिम् इच्छेत समेनापि । संदिग्धो विजयो युधि। न हि सांशयिकं कुर्याद् । इत्य उवाच बृहस्पतिः ॥९॥ संदिग्धो विजयो युद्धे । समेनापि हि योधिनाम् ।
उपायत्रितयाद् ऊर्ध्वं । तस्माद् युद्धं समाचरेत् ॥१०॥ तथा च । असंदधानो मानान्धः । समेनापि हतो भृशम् ।
आमकुम्भम् इवामित्त्वा । नावतिष्ठेत शक्तिमान् ॥११॥ मूमिर मिचं हिरण्यं च । विग्रहस्य फलचयम्। नास्त्य एकम् अपि यद्य् एषां । विग्रहं न समाचरेत् ॥१२॥ खनन् आखुबिलं सिंहः । पाषाणशकलाकुलम् । प्राप्नोति नखभङ्गं वा । फलं वा मूषको भवेत् ॥१३॥ तस्मान् न स्यात् फलं यत्र । पुष्टं युद्धं तु केवलम् । ततः स्वयं तद् उत्पाद्य । कर्तव्यं न कथंचन ॥१४॥ बलीयसा समाक्रान्तो। वैतसीं वृत्तिम् आश्रयेत् । वाञ्छन्न अर्धशिनी लक्ष्मीं। न भौजंगी कथंचन ॥१५॥ क्रमाद् वैतसवृत्तिस तु । प्राप्नोति महतीं श्रियम् । भुजंगवृत्तिम् आपन्नो। वधम अर्हति केवलम् ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org