________________
MILORD
VIRROm
ATO
ONLINE
॥ अहम् ॥
अदम् आरभ्यते संधिविग्रहादिसंबन्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्थायम आद्यश्लोकः।
न विश्वसेत् पूर्वविरोधितस्य शवोश् च मित्रत्वम् उपागतस्य । दग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतेन हुताशनेन ॥१॥
սրa राजपुत्राः पृच्छन्ति । कथम् एतत् । विष्णुशर्मा कथयति। ____ अस्ति दाक्षिणात्ये जनपदे पृथ्वीप्रतिष्ठानं नाम नगरम् । तस्य समीपस्थो महान " अनेकशाखासनाथो न्यग्रोधपादपस् तिष्ठति। पत्र च मेघवर्णो नाम वायसराजो नेककाकपरिवृतः प्रतिवसति स्म । स तत्र विहितावासः कालं नयति । तथान्यो रिमर्दनो नाम महान् उलूको संख्योलूकपरिवारो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म । अथो- 12 लूकराजः पूर्वविरोधवशात् समन्तात् परिभ्रमन यं कंचिद् वायसम आसादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमाच् छनैः शनैः स न्यग्रोधस तेन समन्ताद् धतवायसः कृतः । अथवा भवत्य एवम् । उक्तं च । यतः।
य उपेक्षेत शत्रु स्वं । प्रचरन्तं यदृच्छया।
स्यसंयुक्तः । स शनैस तेन हन्यते ॥२॥ अथान्येद्युः स मेघवर्णः सर्वान सचिवान आहूय प्रोवाच । भोः । उत्कटस् तावद् अयम् 18 अस्माकं शत्रः । उद्यमसंपन्नः कालविच च । नित्यम् एव निशागमे समेत्यास्मत्पक्षक्षयं करोति । तत् कथम् अस्य प्रतिविधातव्यम् । वयं तावद रात्री न पश्यामः । न च दिवा तस्य दुर्ग विजानीमः । येन गत्वा प्रहरामः । तत् किम् अत्र युज्यते संधिविग्रहया- 21 नासनसंश्रयवधीभावानां मध्यात् । अथ ते प्रोचुः । युक्तम् उक्तं स्वामिना । यद् एष पन्नः कृतः। उक्तं च ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org