________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 173
Frame-story: Dove, mouse, crow, tortoise, and deer.
सारङ्गम्। वायसेन भक्ष्यमाणं तं च दृष्ट्वा । भूम्यां सहर्षे कच्छपं निक्षिप्य लगुडम् उद्दिश्य धावितवान्। अचान्तरे पादशब्देनाभ्याशम् आगतं व्याधं ज्ञात्वा चित्राङ्ग उत्तम जवम् आस्थाय वनगहनम् अनुप्रविष्टः । लघुपतनको ऽप्य् उड्डीय वृक्षम् आरूढः । कच्छपो : ऽपि हिरण्यखण्डितबन्धनरज्जुः सलिलाशयम अनुप्रविष्टः । हिरण्यको ऽपि हि शरस्तम्बम आश्रितः । अथ लुब्धको ऽपि तद् इन्द्रजालम व मन्यमानः । किम् इदम् । इति विहताशः कच्छपस्थानम् अगच्छत । पश्यति च तत्राङ्गलमाचप्रमाणेन शतशश छिन्ना बन्धमरज्जम् । तं च योगिनम् इव कच्छपम् अदृश्यतां गतम् अवगम्य स्वशरीरे ऽपि संशयम अचिन्तयत् । संक्षुभितहृदयस तु तस्माद् वनाद् दिशो ऽवलोकयन् शीघ्रतरम् एव स्वगृहं जगाम । अथ चत्वारो ऽपि ते कल्याणशरीराः पुनर् एकस्थीभूय परस्परं । तेहेन वर्तमानाः पुनर्जातम् इवात्मानं मन्यमानाः सुखेन तिष्ठन्ति । तस्मात् ।
तिरश्चाम् अपि यदृक् । संगतं लोकसंमतम्। मानां तच को नाम । विस्मयो ज्ञानशालिनाम् ॥१९॥ 12
समाप्तं चेदं मित्रसंप्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम् आद्यश्लोकः ।
असाधना वित्तहीना । बुद्धिमन्तो बहुश्रुताः । साधयन्त्य आशु कार्याणि । काकाखुमृगकूर्मवत् ॥ *२॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org