________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 171
Frame-story: Dove, mouse, crow, tortoise, and deer.
अत्रान्तरे लुब्धकः शरासनपाणिः समायातः । तस्य पश्यतो ऽपि हिरण्यः पाशं छित्वा यथापूर्वव्याहृतविवरं प्रायात् । लघुपतनको वियत्य उत्पत्यूव गतः । चित्राङ्गो ऽपि वेगेनापकान्तः । लुब्धको ऽपि छिन्नपाशं मृगं दृष्ट्वा विस्मितमनाः प्राह । कथं च न 3 मृगाः पाशांश छिन्दन्ति । ननु दैवान् मृगः पाशच्छेदं कृतवान् । कच्छपं चासंभाव्यां भूमिम् आगतं दृष्ट्वा साधारणचित्तम् अकरोत् । यद्य् अपि दैववशान मृग इमान् पाशांश छित्त्वा गतः । तथाप्य अयं कच्छपः प्राप्तः । उक्तं च ।
उत्पततोऽप्य अन्तरिक्षं । गच्छतो ऽपि महीतलम् ।
धावतः पृथिवीं सर्वां। नादत्तम् उपतिष्ठति ॥१८४॥ एवम् अवधार्य तुरिकया कुशान् आदाय दृढां रज्जु कृत्वा चरणाव् आकृष्य कच्छपं । सुबद्धं कृत्वा धनुषः कोव्यां रज्जुम आलम्व्य लुब्धको यथागतम् एव गन्तुम् आरब्धः । तं च नीयमानं दृष्ट्वा हिरण्यः सविषादम आह । कष्टं भोः कष्टम्।
एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य अहं पारम वार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व अनर्था बहलीभवन्ति ॥१५॥
india 15 क्षते प्रहाराः प्रपतन्ति तीव्रा अन्नक्षये दीव्यति जाठराग्निः। आपत्सु वैराणि समुच्छलन्ति छिद्रेष्व अनर्था बहलीभवन्ति ॥१८६॥ यावद् अस्खलितं तावत् । सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने । विषमं च पदे पदे ॥१८७॥ किंच। यन ननं सगुणं चापि । यच चापत्सु न सीदति ।
धनुर् मित्रं कलवं च । दुर्लभं शुद्धवंशजम् ॥१८८॥ यतोत्र कृत्रिमं मित्रं । लभ्यते न स्वभावजम् । स्वभावजं हि यन् मित्रं । तद् भाग्यैर् एव लभ्यते ॥१९॥ न मातरि न दारेषु । न सोदर्ये न चात्मजे। विश्रम्भस तादृशः पुंसां । यादृङ् मित्रे निरन्तरे ॥१०॥ क्षीयते नोपभोगेन । नाप्य अनार्येर् विलुप्यते ।
ह्रियते मृत्युनकेन । मित्रं सद्भावबन्धुरम् ॥१९१॥ तत् किं ममोपर्य अनवरतम् एवैतद् दैवं प्रहरति । आदी तावद् अर्थभ्रंशः । दारिद्रयदो- 30 षात् स्वजनपरिभवः । तन्निदाद् देशपरित्यागः । मुहृद्वियोगश् चेदानी दैवेन मे जमितः। उक्तं च।
upa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org