________________
Book II. THE WINNING OF FRIENDS ; Tale ix: Deer's former captivity.
170
Frame-story.
तेन च महिकारोपलब्धार्थेन विज्ञप्तो राजपुत्रः । यथा । भद्र । अनेन प्रावृतालसमयोत्सुकेन स्वयूथम् अनुस्मृत्येदम अभिहितम्।
यथा वातविधूतस्य । मृगयूथस्य धावतः।
पृष्ठतो ऽनुगमिष्यामि । कदैतन मे भविथति ॥१७॥ तद् भवतः किम् असंबद्धं ज्वरकारणम् । तच छुत्वा राजपुनो ऽपगतज्वरविकारः पूर्वप्रकृतिम् आपन्नः स्वपुरुषान् एवम आह । । यथा । अमुं मृगं प्रभूतजलेन शिरसि सिक्वा तस्मिन्न् एव वने प्रतिमुञ्चध्वम् । तैश च तथैवानुष्ठितम् ॥
एवम् अनुभूतपूर्वबन्धनो ऽप्य् अहं पुनर् नियतिवशाद् बद्धः । इति ।अत्रान्तरे सुहृत्लेहा- " क्षिप्तचित्तो मन्थरकस तदनुसारेण शर*झुण्टकुशावमर्दनं कुर्वाणस तेषां सकाशम आगतः । तं चागतं दृष्ट्वा सुतराम आविग्रहृदयास ते संजाताः । अथ हिरण्यो मन्थरकम आह । भद्र । न त्वया शोभनं कृतम् । यत् स्वदुर्गम् अपहायागतः । यत्कारणम् । 12 अशक्तस् त्वं लुब्धकाद् आत्मानं परित्रातुम् । वयं व अगम्यास् तस्य । यत्कारणम् । छिन्ने पाशे संनिकृष्ट लुब्धके ऽयं चित्राङ्गः प्रणश्य यास्यति । लघुपतनको ऽपि वृक्षम आरोक्ष्यति । अहम अप्य् अल्पकायवाद् दरीविवरम *अनुप्रवक्ष्यामि । भवांस तु 15 तद्गोचरगतः किं करिष्यति । तच् छ्रुत्वा मन्थरकस तम आह । मा मैवं वोचस त्वम्। यतः। दयितजनविप्रयोगो। वित्तवियोगश च कस्य सह्यः स्यात् ।
यदि सुमहौषधकल्यो। वयस्यजनसंगमो न भवेत् ॥१७९॥ तथा च। अविरलम अप्य् अनुभूताः । शिष्टेष्टसमागमेषु ये दिवसाः ।
*पथ्यटनसंनिभासते। जीवितकान्तारशेषस्य ॥१८॥ सहदि निरन्तरचित्ते । गुणिनि कलत्रे प्रभौ च दुःखने।
विश्राम्यतीव हृदयं । दुःखस्य निवेदनं कृत्वा ॥१८१॥ तत् । भद्र। औत्सुक्यगर्भा धमतीव दृष्टिः
पर्याकुलं क्वापि मनः प्रयाति। वियुज्यमानस्य गुणान्वितेन
निरन्तरप्रेमवता जनेन ॥१८॥ अपि च। वरं प्राणपरित्यागो। न वियोगो भवादशैः ।
प्राणा जन्मान्तरे भूयो। न भवन्ति भवद्विधाः ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org