________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 169
Tale ix : Deer's former captivity. बद्धो यावत् स्वयूथान्तिकम् उपसर्पितुमना जालम् आकर्षामि । तावद् व्याधेन सर्वतो नहो ऽधःशिरा भूमौ निपतितः । गतं च तन मृगयूथं मयि निराशतया । अथ व्याधेनागत्य । शिशुर् " अयं क्रीडामारयोग्यः । इति संजातमृदुहृदयेनाहं मृत्युना न संयोजितः । विशेषतश च गृहं नीत्वा राजपुत्रस्य क्रीडनकार्थ प्रदतः । स राजपुत्रो ऽपि मां दृष्ट्वा परितुष्टो व्याधस्य पारितोषिकं ददौ ।। मां चाभ्यङ्गोवर्तनस्नानभोजनगन्धविलेपनसत्कारैर् अपि समुचितननोहराहारैर् अतर्पयत् । सो ऽहम अन्तःपुरिकाजनस्य कुमाराणां च कौतुकपराणां हस्ताद् धस्तं गच्छन ग्रीवानयनकरच-9 रणकर्णाकर्षणादिभिः परिक्लेशितः । अथ कदाचिद् राजपुत्रस्य शयनीयाधःस्थेन प्रावृदालसमये सविद्युन्मेघस्त नितं श्रुत्वोत्कण्ठितहृदयेन मया स्वयूथम अनुस्मृत्येदम अभिहितम् ।
12 यथा वातविधूतस्य । मृगयूथस्य धावतः ।
पृष्ठतो ऽनुगमिष्यामि । कदैतन मे भविषति ॥१७७॥ अथासौ राजपुत्रः । केनेदम् अभिहितम् । इति संत्रस्त हृदयः 15 समन्ताद् अवलोकयन माम् अपश्यत् । दृष्ट्वा च । न मानुषेणेदम अभिहितम् । किं तु मृगेण । अत एतद् औत्पांतिकम् । तत् सर्वथा विनष्टो ऽस्मि । इति मत्वा ग्रहगृहीत इव कथम 18 अपि प्रस्खलितवासा राजपुत्रो गृहाद बहिर् निश्चक्राम । भूताधिष्ठितम इवात्मानं मन्यमानो मान्त्रिकतान्त्रिकादिपुरुषान महत्यार्थमात्रया प्रलोभ्याभिहितवान् । यो ममेमां रुजम् अपनयति' 21 तस्माय अकृशां पूजां करोमि । अहम् अपि तबासमीक्ष्यकारिणा जनेन काष्ठेष्टकालगुडप्रहारैर् हन्यमानः । अनेन किं पशुना व्यापादितेन । इति वदतायुःशेषतया केनापि साधुना रक्षितः । 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org