________________
Frame-story.
Book II. THE WINNING OF FRIENDS; Tale ix: Deer's former captivity.
अज्ञानाज् ज्ञानतो वापि । यद् दुरुक्तम् उदाहृतम् । तत् क्षन्तव्यं युवाभ्यां मे । कृत्वा प्रीतिपरं मनः ॥ १७५ ॥
तच् छ्रुत्वा लघुपतनक आह । भद्र । न भेतव्यम् अस्मद्विधेषु मित्रेषु विद्यमानेषु । तद् अहं अ हिरण्यं गृहीत्वा त्वत्पाशच्छेदनाय द्रुततरम् आगमिष्यामि । एवम् उत्कोद्विमहृदयो मन्थरकहिरण्यान्तिके गत्वा चित्राङ्गबन्धनस्वरूपं निवेद्य हिरण्यं चच्चा गृहीत्वा पुनश् चित्राङ्गान्तिकम् आगतः । हिरण्यो ऽपि तं तदवस्थम् अवलोक्य सविषादम् आह । भद्र | 6 त्वं सदा शङ्कितहृदयो ज्ञानचक्षुश् चासि । तत् कथम् इदं ते बन्धनव्यसनम् । सो ऽब्रवीत् । वयस्य । किम् अनेन पृष्टेन । बलवद् धि दैवम् । उक्तं च ।
किं शक्यं सुमतिमतापि तत्र कर्तु यत्रासौ व्यसनमहोदधिः कृतान्तः । रात्रौ वा दिनसमये ऽथवा समग्रे
यो दृश्यः प्रहरति तेन को विरोधः ॥ १७६ ॥
praha 12
तत् । साधो । त्वम् अभिज्ञो ऽसि नियतिविलसितानाम् । अतो द्रुतं छिन्धि पाशम् । यावत् क्रूरकर्मा व्याधो नेहागच्छति । हिरण्य आह । मयि पार्श्वस्थे न भेतव्यम् । किं च । मम मनसि महान संतापो वर्तते । तम् अपनयतु भवान् वृत्तान्तकथनेन । प्रज्ञाचक्षुर् 15 असि । कथम् अस्य बन्धनस्य वशम् उपगतः । सो ऽब्रवीत् । यद्य् अवश्यं त्वया श्रोतव्यम् । तद् आकर्णय । यथाहं पूर्वम् अनुभूतबन्धनव्यसनो ऽपि दैववशात् पुनर् बद्धः । सो ऽब्रवीत् । कथय । कथम् अनुभूतपूर्व * भवता बन्धनव्यसनम् । तत् सर्वं विस्तरतः श्रोतुम् इच्छामि । चित्राङ्गो ऽब्रवीत् ।
Jain Education International
168
For Private & Personal Use Only
9
॥ कथा ९ ॥
पूर्वम् अहं षण्मासजातः शिशुभावात् सर्वेषाम् अग्रतो विहरामि' लीलया च दूरं गत्वा स्वयूथं प्रतिपालयामि । अस्माकं चडे गती । ऊर्ध्वा ' अञ्जसा च । तयोर् अहम् अञ्जसां वेद्मि ' न चोर्ध्वाम् । अथ कदाचिद् विचरन् यावन् मृगगणान् न * पश्यामि । तावत् सुतराम् आविग्नहृदयः । क्व ते गताः । इति दिशो विलोकयन् अग्रतः स्थितान् पश्यामि । ते ह्य् ऊर्ध्वगत्या जालं व्यतिक्रम्य सर्वे ऽपि पुरतः स्थित्वा माम् एव *वीक्षमाणास् तिष्ठन्ति । अथोर्ध्वगतेर् अनभिज्ञतयाहं व्याधपाशजालेन
18
21
27
www.jainelibrary.org