________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale viii: Mice rescue elephants. Frame-story.
रिचारकहस्तिन्या मूषकेभ्यो यथावृत्तं निजबन्धनव्यसनं यूथपतिर् आख्यापितवान् । ते च श्रुत्वा प्रत्युपकारकरणार्थ सहस्रशो मिलित्वा तद्यूयसकाशं गताः दृष्ट्वा च मयूथं यूथपतिं बद्धं यथास्थानं पाशांश छित्त्वा वृक्षस्कन्धोपरि समारुह्य स्कन्धबन्धरज्जूंश च खराडfयत्वा बन्धनान मोचितवन्तः ॥
अतोऽहं ब्रवीमि । कर्तव्यान्य् एव मित्राणि । इत्यादि । तच् छ्रुत्वा मन्थरकेणाभिहितम् । 6 भद्र । भवत्व् एवम् । मा भैषीः । स्ववेश्मेदं भवतः । तन् निरुद्वेगमनसा यथेष्टम् अत्रेोष्यताम् । ततस् तेषां स्वेच्छया कृताहारविहाराणां मध्याह्नसमये विपुलहृदसमीपे बहन्नवृक्षच्छायाधस्तात् कृतसमागमानां विविधधर्मार्थादिशास्त्रविचारेण परस्परं प्रीति- 9 पूर्वकं कालो ऽतिवर्तते । युक्तं चैतत् ।
काव्यशास्त्रविनोदेन । कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां । निद्रया कलहेन वा ॥ १७१ ॥ सुभाषितरसास्वाद बद्धरोमाञ्चकञ्चुकाः ।
।
विनापि संगमं स्त्रीणां । सुधियः सुखम् आप्नुयुः ॥ १७२ ॥
किं च ।
167
अथ कदाचित् तस्यां नियतवेलायां चित्राङ्गी नायातः । तं चापश्यन्तस ते तत्का - 15 ममुपजातविपरीतनिमित्तशङ्कितहृदयास तस्याकुशलं मन्यमाना धृतिं न लेभिरे । ततो मन्थरकहिरण्यी लघुपतनकं प्रत्य् उक्तवन्तौ । भद्र । अशक्ताव् आवां मन्दगतितया तं प्रियसुहृदम् अन्वेष्टुम् । तद् भवान् एवान्विष्य जानातु । किम् असौ सिंहेन भक्षितः । 18 अथवा दावानलेनावलीढः । उत लुब्धकादिगोचरे पतितः । इति । उक्तं चैतत् । लीलोद्यानगते ऽपि हि । सहसा पापं विशङ्कयते बन्धौ ।
किम् उ दृष्टबहूपाय प्रतिभयकान्तारमध्यस्थे ॥ १७३ ॥
प्राणव्यये समुत्पन्ने । यदा स्यान् मित्रदर्शनम् ।
द्वयोः सुखप्रदं तच् च । जीवतो ऽपि मृतस्य च ॥ १७४ ॥
तत् चन्तव्यम् । यत् किंचिन् मया प्रणयकुपितेन गोष्ठीष्व् अभिहितम् । तथा हिरण्यमथरकाव अपि मद्वचनाद् वाच्यौ ।
ār 21
तत् सर्वथा गत्वा चित्राङ्गवार्त्ता यथावस्थिताम् अन्विष्य शीघ्रम् आगच्छ । तच् छुत्वा लघुपतनको नातिदूरे गत्वा पल्वलसमीपे खादिरकीलकावलम्बित दृढकूटपाशपतितं चित्राङ्गं दृष्ट्वा सविषादम् आह । भद्र । कथम् इमाम् आपदं प्राप्तो ऽसि । सो ऽब्रवीत् । 24 मित्र । नायं विलम्बकालः । श्रूयताम् अस्मद्वचनम् । यथा ।
Jain Education International
12
For Private & Personal Use Only
27
www.jainelibrary.org