________________
166
Book II. THE WINNING OF FRIENDS%3
Tale vii: Mice rescue elephants. पपन्ना मूषकाः संपिष्टवक्तूनेत्रशिरोग्रीवाः कृताः । शेषभूताश च संग्रहारं चक्रिरे । व्यापादिता वयम् एभिर् दुष्टगजैर् गच्छद्भिः । यदि पुनर् एवैत इहागमिष्यन्ति । ततो बीजशेषा अपि न भविष्यामः । अपि च ।। स्पृशन्न अपि गजो हन्ति । जिघ्रन्न अपि भुजंगमः ।
हसन्न अपि नृपो हन्ति । मानयन्न् अपि दुर्जनः ॥१७०॥ . तद् अत्रान्तरे करणीयेनोपायश चिन्यताम् । अथ विचिन्योपायं कतिपये ऽपि गतास तत् सरो गजपतिं प्रणम्य सविनयम अब्रुवन । देव । इतो नातिदूरे पारंपर्यक्रमायातो ऽस्माकम् आव- . सथः । तत्र पुत्रपौत्रपरंपरया वृद्धिम् उपागताः । तद् भवद्भिर् इहोदकमहणार्थम आगच्छद्भिः सहस्रो विनाशिता वयम । यदि पुनस तेनेव मार्गेण यास्यथ । ततो बीजावशेषा अपि न भवि- 12 यामः । तद् यद्य् अस्माकम् उपरि कृपास्ति । ततो ऽन्येन पथा गच्छत । इति । यत्कारणम् । अवश्यम एवास्मद्विधैर् अपि कदाचित् किंचित् प्रयोजनं भविष्यति । तच् च श्रुत्वा यूथपतिः ।। स्वचितेनावधार्य । यथेमे वदन्ति मूषकाः । तथैव । नान्यथा । इति कृत्वा तम् अर्थ प्रतिपन्नवान । अथ गच्छति काले केनचिद् राज्ञा हस्तिबन्धकपुरुषा हस्तिनां बन्धनाय समादिष्टाः । तैश च 18 वारिबन्धं कृत्वा सयूथो यूथाधिपतिर् विधृत्य दिनत्रयानन्तरं महत्या रज्ज्वादियन्त्रणया ततः समाकृष्ण तस्मिन्न् एव वने स्थूलस्कन्धवृक्षेषु बद्धः । अथ गतेषु बन्धकपुरुषेषु स एवं चिन्तयति । 4 केन प्रकारेण कस्य वा सकाशन मे मोक्षो भविष्यति । स्मृत्वा । तान मूषकान विहाय नान्यो ऽस्त्य् अस्माकं मोक्षोपायः । ततो गजबन्धनभूमिबहिःस्थितया पूर्वोपलब्धमूषकावसथया निजप- 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org