________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 165 Frame-story.
Tale viii: Mice rescue elephants.
मन्थरकस तं मृगम आह । भद्र । पीयताम् अवगाह्यतां च । प्रधानम् उदकं शीतलं च । तद्वचनम् आधाय चित्राङ्गश चिन्तयाम आस । न ममतेभ्यः सकाशात् स्वल्पम् अपि भयम् अस्ति । कस्मात् । कच्छपस तावद् उदकगत एव शक्तिमान् । मूषकवायसाव 3 अपि मृतम् एव भक्षयतः । तद् एतान् अनुसरामि । इति मत्वा तैः सह संगतः । मन्थरकेण च स्वागताभ्यपचारपुरःसरम अभिहितश चित्राङ्गः । अपि शिवं भवतः । कथ्यताम् अस्माकम् । कथम् इदं वनगहनम् आगतो ऽसि । इति । अथासाव अब्रवीत्। 6 निर्विषो ऽस्य् अनेनाकामविहारिखेन । अश्ववरिः सारमेयैर् लुब्धकर् इतश चेतश च संनिरुध्यमानो भयान् महता जवेनातिक्रम्य सर्वान् आगतो वाहम् उदकार्थो । तद् इच्छामि भवद्भिः सार्ध मैत्री कर्तुम् । तच् छ्रुत्वा मन्थरक आह । अल्पकाया वयम् ।" न युज्यते भवतो ऽस्माभिः सह सख्यं कर्तुम् । यतः प्रत्युपकारसमथैः सह सख्यं कर्तुम उचितम्। तच छत्वा चित्राङ्गो ब्रवीत्। वरं नरकवासो ऽपि। विद्वद्भिः सहितो मम।
12 न नीचजनसंपर्कः । सुरेन्द्रभुवनेष्व् अपि ॥१६॥ अल्पकायो उनल्यकाय इति । किम् अनेनात्मनिन्दापूर्वकेणाभिहितेन । अथवा युक्तं सत्पुरुषाणाम् ईदृशं वचनं वक्तुम् । तद् अद्यावश्यं भवद्भिर् मया सह सख्यं कर्तव्यम् । 15 एवं चामुश्रूयते।
कर्तव्यान्य एव मित्राणि । सबलान्य अबलानि च ।
हस्तियूथं वने बद्धं । मूषकैर् यद् विमोचितम् ॥ १६९ ॥ मन्थरकः पृच्छति । कथम् एतत् । चित्राङ्गः कथयति ।
॥ कथा ॥ अस्लि कश्चिद् *उत्सबजनपदगृहदेवतायतनो भूमिप्रदेशः । तब 1 पूर्वोषितमूषकाः संजातपुत्रपौत्रदौहित्रादिभिर् भवनभूभागछिद्रवसतयो वेश्मप्रतिवेश्मपरंपरया वासं चक्रिरे । एवं च तेषां विविधोत्सवप्रकरणविवाहखाद्यपानादिना परं सौख्यम् अनुभवतां 4 कालो ऽतिवर्तते । अबान्तरे गजपतिर् गजसहस्रपरिवृतः पूर्वोपलब्धोदके सरसि स्वयूथेन सहोदकयहणाय गन्तुम आरब्धवान। अथ गच्छता तेन गजपतिना मूषकावसथानां मध्येन यथाकालो- 27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org