________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 163 Frame-story.
Fable stanza (159): Mouse and snake.
अतो ऽहं ब्रवीमि । अर्थस्योपार्जनं कृत्वा । इति । तत् । भद्र हिरण्य । एवं ज्ञात्वा धनविषये त्वयासंतोषो न कार्यः । उक्तं च ।
संपत्सु महतां चित्तं । भवत्य उत्पलकोमलम्।
आपत्सु च महाशैलाशिलासंघातकर्कशम् ॥१५१॥ किंच। प्राप्तव्यो नियतिबलाश्रयेण यो ऽर्थो
निश्चेष्टः शयनगतो ऽप्य् उपाश्नुते तम् । भूतानां महति कृते ऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१५२॥
praha अपरं च। किं चिन्तितेन बहुना। किं वा शोकेन मनसि निहितेन ।
तन निश्चितं भविष्यति । विधिना लिखितं ललाटे यत् ॥१५३॥ ar तथा च। द्वीपाद अन्यस्माद् अपि । मध्याद् अपि जलनिधेर दिशोऽप्य अन्तात् ।
आनीय झट् इति घटयति। विधिर् अभिमतम् अभिमुखीभूतः ॥१५४॥ar 12 अपरं च। *अघटितघटितं घटयति । सुघटितघटितानि जर्जरीकुरुते ।
विधिर् एव तानि घटयति । यानि पुमान् नैव चिन्तयति ॥ १५५॥ ar अनिच्छन्तोऽपि दुःखानि । यथहायान्ति देहिनः ।
सुखान्य अपि तथा मन्ये । चिन्तादिन्येन को गुणः ॥१५६॥ अपरं च। अन्यथा शास्त्रगर्भिण्या । धिया धीरोऽर्थम् ईहते।
*स्वामीव प्राक्तनं कर्म । विदधाति तद् अन्यथा ॥१५७॥ येन शुक्लीकृता हंसाः । शुकाश च हरितीकृताः ।
मयूराश चित्रिता येन । स नो वृत्तिं विधास्यति ॥ १५८॥ साधु चेदम उच्यते।
भमाशस्य करण्डपिण्डिततनोर ग्लानेन्द्रियस्य क्षुधा कृत्वाखर विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस् तत्पिशितेन सत्वरम असौ तेनैव यातः पथा
स्वस्थास तिष्ठत दैवम् एव हि नृणां वृद्धी क्षये चाकुलम् ॥ १५९॥ ardu तद् इति मत्वा श्रेय एव चिन्तनीयम् । तथा चोक्तम् ।
कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पो ऽपि व्रतनियमोपवासधर्मः। प्राणेषु प्रहरति नित्यम् एव दैवं भूतानां महति कृते ऽपि हि प्रयत्ने ॥१६॥
praha 30 तस्मात् सदैव संतोष एव श्रेयान्।
संतोषामृततृप्तानां । यत् सुखं शान्तचेतसाम् । कुतस तद् धनलुब्धानाम् । इतश् चेतश् च धावताम् ॥१६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org