SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Book II. THE WINNING OF FRIENDS : 162 Tale vi: Weaver and Stingy and Bountiful. कर्तः । किं त्वयास्य धनगुप्तस्याधिको व्ययो निर्मितः । यत् सोमिलकस्यानेन भोजनं प्रदतम् । तद् अयुक्तं कृतं त्वया। द्वितीयः प्राह । भोः कर्मन । न ममात्र दोषः । मया लाभः क्षतिश च : कर्तव्या। तत्परिणतिश च त्वदायत्ता। अथ यावद् असाव् उतिठति । तावद् धनगुप्तस्य विषूचिकादोषेण द्वितीये ऽहि खिद्यमानस्योपवासः संजातः। ततः सोमिलको ऽपि तद्गृहान निष्क्रम्य भुक्तधनगृहं गतः । तेनापि चाभ्युत्थानभोजनाच्छादनादिभिर् विहित बहुमानस् तस्यैव गृहे सुखशय्यायां सुष्वाप । ततश च निशीथे यावत् पश्यति । तावत् ताव् एव द्वौ पुरुषो मियो मन्त्रयेते । तत्रैको ऽब्रवीत् । भोः कर्तः । अद्यानेन भुक्तधनेन सोमिलकस्योपचारं कुर्वता प्रभूतो व्ययः कृतः । ततः कुतो ऽयम उद्धारविधिं दास्यति । यतः सर्वम 12 अनेन *व्यवहारकगृहाद् आनीतम् अस्ति । स आह । भोः कर्मन । मम कृत्यम् एतत् । परिणतिश च त्वदायता । अथ प्रभाते को ऽपि राजपुरुषो राजप्रसादजं वित्तम् आदाय समायातो भुक्तधनाय 15 सर्व समर्पयाम आस । तद् दृष्ट्वा सोमिलकश चिन्तितवान् । संचयरहितो ऽपि वरम एष *भुक्तधनः । न पुनर् असो कदो गुप्तधनः । उक्तं च । 18 अग्निहोत्रफला वेदाः । शीलवृत्तफलं श्रुतम् । रतिपुत्रफला दारा ' दतभुक्तफलं धनम् ॥१५०॥ तद् भगवान विधाता मां दत्तभुक्तधनं करोतु । न कार्य मे 1 *धनगुप्ततया । इत्य उक्ते विधाता तं तथैव कृतवान् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy