SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 161 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale vii: Jackal and bull's cod. Tale vi: Weaver and Stingy and Bountiful. 12 तावत् स्यात् सर्वकृत्येषु । पुरुषो ऽत्र स्वयं प्रभुः । *स्त्रीणां वाक्याङ्कुशैः कर्णे। यावन न ध्रियते बलात् ॥१४७॥ तथा च । अकृत्यं मन्यते कृत्यम् । अगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं । स्त्रीवाक्यप्रेरितो नरः ॥१४॥ एवं तस्य पृष्ठतः सभार्यः परिभ्रमंश चिरकालम् अनयत् । न च । तयोः पतनम अभूत् । ततश च पञ्चदशे वर्षे निर्वेदात स भार्याम आह । शिथिलौ च सुबद्धौ च । पततः पततो न वा। निरीक्षितौ मया भद्रे । दश वर्षाणि पञ्च च ॥१४९॥ तत् पश्चाद् अपि । नैतयोः पतनं भविष्यति । इति तम् एव मूषकमार्गम् अनुसरावः ॥ अतो ऽहं ब्रवीमि । शिथिलौ च सुबद्धौ च । इति । तद् एवं धनवान सर्वो ऽपि स्पृहणीयो भवति । अतो देहि मे प्रभूतं धनम् । पुरुष आह । यद्य् एवम् । तद् गच्छ त्वं भूयो ऽपि 15 वर्धमानपुरम् । तत्र द्वौ वणिक्पुत्रौ धनगुप्तभुक्तधनाख्यौ प्रतिवसतः । तयोश चेष्टितं बुकस्य स्वरूपं प्रार्थनीयम् । इत्य उलादर्शनं गतः । सोमिलको ऽपि विस्मितमना भूयो ऽपि 13 वर्धमानपुरं गतः। अथ संध्यासमये परिश्रान्तो धनगुप्तगृहं पृच्छन् कृछाल लब्ध्वा प्रविष्टः । अथ तस्य भार्यया पुत्रादिभिश च निर्भय॑मानो 1 ऽपि गृहाजिरं प्राप्योपविष्टः । ततश च भोजनवेलायां भक्तिवर्जितं भोजनं लब्ध्वा तत्रैव सुप्तः । यावन् निशीथे पश्यति । तावत् ताव् एव द्वौ पुरुषो मन्त्रयेते । तत्रैको ऽब्रवीत् । भोः 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy