________________
160
Book II. THE WINNING OF FRIENDS;
Tale vii: Jackal and bull's cod. न ज्ञायते । कदाचिद् एतयोः पतनं भविष्यति वा । न वा । तत् किं मां वृथा श्रमाय नियोजयसि । अवस्थस् ताव जलार्थम आगतांस त्वत्समेतो मूषकान भक्षयिष्यामि । मार्गो ऽयं यतस् : तेषाम् । अथवास्य पृष्ठे गमिष्यामि । तद् अबान्यः कश्चिद् एत्य स्थानं समाश्रयिष्यति । तद् एतन न युज्यते कर्तुम् । उक्तं च ।। ? यो ध्रुवाणि परित्यज्य । अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति । अध्रुवं नष्टम एव च ॥१४३॥ साब्रवीत् । भोः । कापुरुषस् त्वम् । यत् किंचिद् अवाण संतोषं करोषि । तन न युक्तम् । पुरुषेण सदैवोद्योगवता विशेषेण १ भाव्यम् । उक्तं च। __ यत्रोत्साहसमालम्बो । यत्रालस्यविहीनता।
नयविक्रमसंयोगस । तत्र श्रीर् अखिला ध्रुवम ॥१४४॥ 12 तथा च। __ न दैवम इति संचिन्य । त्यजेन नोद्योगम आत्मनः ।
अनुद्योगेन नो तैलं । तिलेभ्यो ऽपि हि जायते ॥१४५॥ 15 यच् च त्वं वदसि । एतौ पतिष्यतो वा न वा ' इति । तद् अप्य् अयुक्तम् । उक्तं च। कृतनिश्चयिनो वन्द्यास् । तुङ्गिमा नोपयुज्यते ।
चातकः को वराको ऽयं । यस्येन्द्रो वारिवाहकः ॥१४६॥ अपरम् । तावद् अहं मूषकमांसस्यातीव निर्विया । एतौ च मांसपिण्डौ प्रत्यासन्नपतनौ च दृश्यते । तत् सर्वथा नान्यथा 1 कर्तव्यम् । इति । अथासौ तद् आकर्ण्य मूषकप्राप्तिस्थानं त्यक्ता तस्य प्रलम्बवृषणस्य पृष्ठम् अन्वगच्छत् । अथवा साध्व् इदम् उच्यते।
24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org