________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 159 Tale vi: Weaver and Stingy and Bountiful.
Tale vii: Jackal and bull's cod.
दनाभ्यधिकां वराटिकाम् अपि न सेहे । तद् गच्छ गृहम् । तथा न मे स्याद् व्यर्थ दर्शनम् । तत् प्रार्थ्यतां वरम् अभीष्टम् । इति । सोमिलक आह । यद्य् एवम् । तद् देहि मे प्रभूतं धनम् । सो ऽब्रवीत् । भद्र । किं करिथसि भोगत्यागरहितेन धनेन । यतो भोजनाच्छादनाभ्यधिको नास्ति ते भोगः । सोमिलक आह । यछ् अपि भोगो न भवति । तथापि तद् भवतु । उक्तं च। विरूपो ऽप्य् अकुलीनो ऽपि । सद्दानाश्रितमानसैः ।
सेव्यते च नरो लोकर् । यस्य स्याद् वितसंचयः ॥१४१॥ तथा च।
शिथिलौ च सुबद्धौ च । पततः पततो न वा। निरीक्षितौ मया भट्रे । दश वर्षाणि पञ्च च ॥१४२॥ पुरुष आह । कथम एतत् । सो ऽब्रवीत् ।
॥ कथा ७॥ १ कस्मिंश्चिद् अधिष्ठाने प्रलम्बवृषणो नाम षण्डः प्रतिवसति स्म । स च मदातिरेकात् परित्यक्तयूथो नदीतटानि शृङ्गाभ्यां विदारयन 15 स्वेच्छया मरकतसदृशानि शष्यायाणि भक्षयन्न अरण्यचरो बभूव।। अथ तत्रैव वने प्रलोभिको नाम शृगालः प्रतिवसति स्म । स भार्यया सह कदाचिन नदीपुलिने सुखेनोपविष्ट आस्ते। एतस्मिन्न् 18 अन्तरे प्रलम्बवृषणः षण्डो जलपानार्थ तद् एव पुलिनम् अवतीर्णः। तस्य तौ प्रलम्वृषणाव् अवलोक्य शृगाल्या शृगालो ऽभिहितः । स्वामिन् । पश्यास्य वृषभस्य मांसपिण्डौ लम्बमानौ । यथावस्थितौ । तद् एतौ क्षणेन प्रहरेण वा पतिथतः । एवं है ज्ञात्वा भवान अस्य पृष्ठे यातुम् अर्हति । शृगाल आह । प्रिये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org