SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Book II. THE WINNING OF FRIENDS ; 156 Frame-story. Tale vi: Weaver and Stingy and Bountiful. किं बहुना । श्रूयतां कार्यतत्त्वम् । केचिद् अत्र पुरुषा धनभोगभोगिनः । केचि छ धनरचितार एव भवन्ति । तथा चोक्तम्। अर्थस्योपार्जनं कृखा । नैवाभाग्यः समभुते। अरण्यं महद् आसाद्य । मूढः सोमिलको यथा ॥ १३३॥ हिरण्य आह। कथम् एतत् । मन्थरकः कथयति । ॥ कथा ६॥ अस्ति कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम तन्तुवायः । स चानेकरचनारञ्जितानि पार्थिवजनोचितानि वस्त्राणि सदैव विदधाति । परं भोजनाच्छादनाधिका कथम अपि नार्थमाचा संप- " द्यते । ये चान्ये स्थूलवस्त्रसंपादकाः कौलिकाः । तान् महईिसंपन्नान अवलोक्य स्वभार्याम आह । प्रिये । पश्यैतान स्थूलपटकरान अप्य् उपार्जितधननिकरान् । तद् अधारणकं ममैतन 12 नगरम् । अतो ऽहम् अन्यत्र यास्यामि । तद्भार्याब्रवीत् । भोः प्रिय । मिथ्या प्रजल्पितम् इदम् । यद् अन्यत्र गतानां धनं *भवति । उक्तं च । 15 न हि भवति यन न भाव्यं । भवति च भाव्यं विनापि यत्नेन। करतलगतम् अपि नश्यति । यस्य च भवितव्यता नास्ति॥१३४॥ar अपरं च। यथा धेनुसहस्रेषु । वत्सो विन्दति मातरम । एवं पूर्वकृतं कर्म । कर्तारम् अनुगच्छति ॥१३५॥ किं च। यथा छायातपौ नित्यं । सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च । संश्लिष्टाव इतरेतरम् ॥१३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy