SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Book II. THE WINNING OF FRIENDS; 1541 - Frame-story: Dove, mouse, crow, tortoise, and deer. अथवा। उत्साहसंपन्नम् अदीर्घसूत्रं *क्रियाविधिज्ञं व्यसनेष्व् असक्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं मार्गति वासहेतोः ॥११३॥ upa अथवा। अकृपणम् अशटम अचपलं । योगिनम् अविषादिनं वुधं शूरम। यदि नाश्रयति नरं श्रीः । श्रीर् एव हि वञ्चिता भवति ॥ ११४॥ ār 6 अपि च । अव्यवसायिनम् अलसं । दैवपरं साहसाच च परिहीणम्। प्रमदेव हि वृद्धपतिं । नेच्छत्य् अवगुहितुं लक्ष्मीः ॥११५॥ न स्वल्पम अप्य अध्यवसायमीरोः करोति विज्ञानविधिर गुणं हि। अन्धस्य किं हस्ततलस्थितोऽपि निवर्तयेद् अर्थम दह प्रदीपः ॥११६॥ दातारोऽप्य् अत्र याचन्ते । हन्तारोऽप्य् अबलैर् हताः । याचितारो न याचन्ते । नराः कर्मविपर्ययात् ॥११७॥ न चेतन मन्तव्यं भवता । स्थानभ्रष्टा न शोभन्ते । दन्ताः केशा नखा नराः। इदं हि कापुरुषव्रतम् । यत् स्वं स्थानं न परित्यजेत् ॥११८॥ इति । न हि शक्तिमतां स्वदेशपरदेशयोः कश्चिद् विशेषः । उक्तं च । यतः । शूराश च कृतविद्याश च । रूपवत्यश च योषितः । यत्र यच हि गच्छन्ति । तत्र तत्र कृतालयाः॥११९॥ पटुर् इह पुरुषः पराक्रमे भवति सदा प्रभुर अर्थसाधने । न हि सदृशमतिर बृहस्पतेः शिथिलपराक्रम एष निश्चयः॥१२०॥ apa तद् यछ अर्थरहितो भवान् । तथापि प्रज्ञोत्साहसंपन्नो न सामान्यपुरुषतुल्यः। यतः। apa विनाप्य अथैर् धीरः स्पृशति बहुमानोन्नतिपदं परिष्वक्तो ऽप्य अथैः परिभवपदं याति कृपणः। स्वभावाद् उद्भूतां गुणसमुदयावाप्तिविपुलां दुतिं संहीं न श्वा कृतकनकमालोऽपि लभते ॥१२१॥ sikha 30 किं च। उत्साहशक्तियुतविक्रमधैर्यराशिर् sikha यो वेत्ति गोप्पदम वाल्पतरं समुद्रम। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy