SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Book II. THE WINNING OF FRIENDS; Tale ii: Mouse and two monks. अपि च । वरं विभवहीनेन । प्राणैः संतर्पितो ऽनलः । नोपकारपरिभ्रष्टः । कृपणो ऽभ्यर्थितो जनः ॥ ee॥ वरं पर्वतदुर्गेषु । भ्रान्तं वनचरैः सह । , न तु दीनाक्षरं वाच्यं देहीति कृपणं वचः ॥ e ॥ अथ चैवं गते केन नामान्योपायेन जीवितं स्यात् । किं चौर्येण । ० तद् अपि परस्वादानात् कष्टतरम् ' यत्कारणम् । वरं मौनं नित्यं न च वचनम् उक्तं यद् अनृतं 146 Jain Education International वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्व् अभिरतिर् वरं भिक्षार्थित्वं न च परधनास्वादनमतिः ॥९०॥ अथवा किं परपिण्डेनात्मानं पोषयामि । तद् अपि कष्टं भोः 12 कष्टम् । एतद् अपि द्वितीयं मृत्युद्वारम् । उक्तं च । sikha 3 रोगी चिरप्रवासी । परान्नभोजी परावसथशायी । यज् जीवति तन् मरणं' यन् मरणं सो ऽस्य विश्रामः ॥ ९१ ॥ r 15 तत् सर्वथा तद् एव बृहत्स्फिगपहृतं धनम् आत्मीकरोमि । मया हि तयोर् दुरात्मनोर् उच्छीर्षकसंनिधाने धनपेटिका दृष्टास्ति । तापहारं कुर्वतो मे मृत्युर् अपि श्रेयान् । यतः । स्ववित्तहरणं दृष्ट्वा ' कातरो यस् तितिक्षते । पितरो ऽपि न गृह्णन्ति । तद्दत्तम् उदकाञ्जलिम् ॥ ९२ ॥ इति । एवं संप्रधार्य रात्रौ तत्र गत्वा निद्रावशम् उपगतस्य तस्य 21 मया पेटिकायां यावच् छिद्रं कृतम् ' तावत् प्रबुद्धो ऽसौ तापसः । ततो जर्जरवंशप्रहारेण तेनाहं शिरसि ताडितः कथंचिद् आयुःसावशेषतया न मृतो ऽस्मि । इति । अथवा । For Private & Personal Use Only 18 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy