________________
142
Book II. THE WINNING OF FRIENDS ;
Tale ii: Mouse and two monks.
मार्गेण दुर्ग गतः । ततश च सुहस्तिकया खनितुम् आरब्धः । अथ नेन खनता प्राप्तं तन निधानम् । यस्योपरि सदैवाहं कृतवसतिर् यस्योमणा च दुर्गम् अपि गच्छामि । इति । ततो हृष्टमना । अभ्यागत इदम ऊचे । भी बूटकर्ण । स्वपिहीदानी निःशङ्कः । अस्योपणा मूषकस त्वां जागरितवान् । एवम उक्ला *तन निधानम् आदाय मठाभिमुखौ प्रतस्थाते। - अहम् अपि यावत् तत् स्थानम् आगच्छामि । तावद् अरमणीयम् उहेगजननं वीक्षितुम् अपि न शक्नोमि। *अचिन्तयं च । अहो । किं करोमि । क गच्छामि । कथं मे स्यान मनसः । प्रशान्तिः । एवं चिन्तयतो मे महत्ता कष्टेन स दिवसो जगाम ।
अथास्तम् इते सहस्रकिरणे सोवेगी निरुत्साहम तस्मिन्न् एव मठे सपरिवारः प्रविष्टः । अथास्मत्परियहशब्दम आकर्ण्य 12 बूटकों *भूयो भूयो ऽपि भिक्षापात्रं जर्जरवंशेन ताडयितुम आरब्धः । अथासाव् अभ्यागतो ऽब्रवीत् । सखे । किम् अद्यापि न निःशङ्को निद्रां गच्छसि । स आह । भगवन । आयातो नूनं सपरि- 15 जनो दुष्टमूषकः । तद्याद् एतत् करोमि । ततो विहस्याभ्यागतः प्रोवाच । सखे । मा भैषीः । वित्तेन सह गतो ऽस्य कूर्दनोत्साहः । यतः सर्वेषाम् अपि जन्तूनाम् एषा गतिः । उक्तं च।
यद् उत्साही सदा मर्त्यः । पराभवति यज् जनान । यद् उडतं वदेद वाक्यं । तत् सर्व वितजं बलम् ॥६॥
अथाहं तच छ्रुत्वा कोपाविष्टो भिक्षापात्रम उद्दिश्य विशेषाद् 21 उत्कूदितो ऽप्राप्त एव भूमौ पतितश च । ततो मां दृष्ट्वा स मे * शत्रुर् बूटकर्णम उवाच । सखे । पश्य पश्य कौतूहलम् । उक्तं च । यतः।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org