________________
Book II. THE WINNING OF FRIENDS%3B
140 Tale iii: Hnited grain for unhuiled.
Tate ii : Mouse and two monks.
दताः । एतस्मिन्न अन्तरे तस्या गहे कर्मव्ययतया तेषां तिलानां मध्ये कश्चित् सारमेयो मूबोत्सर्ग चकार । तद् दृष्ट्वा सा व्यचिन्तयत् । अहो । पश्य नैपुण्यं पराङ्मुखीभूतस्य विधेः । यद् एतान : अपि तिलान अभोज्यान कृतवान् । तद् अहम् एतान समादाय कस्यचिद् गृहं गत्वा लुञ्चितैर् अलूञ्चितान आनयामि । सर्वो ऽपि जनो ऽनेन विधिना दास्यति । इति । अथ ताञ् शूर्पे । निधाय गृहाद् गृहं प्रविशन्तीदम आह । अहो । गृह्णातु कश्चिद् अलुञ्चितैस् तिलैर् लुञ्चितांस तिलान् । अथ यस्मिन् गृहे ऽहं भिक्षार्थ प्रविष्टः । तब सा तिलान् आदाय प्रविष्टा पूर्वोक्तम् । एवाह । अथ तगृहिण्या प्रहृष्टयालुञ्चितैर् लुञ्चितास तिला गृहीताः। तथा च प्रवृत्ते तस्या भर्ता समायातः । तेन साभिहिता। १ भद्रे । किम इदम । इति । सा कथयति । समर्घा मया तिला 12 लब्धा लुञ्चिता अलुञ्चित्तैः । इति । ततः स विताब्रवीत् । कस्य *संबन्धिन इमे तिलाः । तत्र तत्सुतः कामन्दकिर् आह । शाण्डिलीमातुः । सो ऽब्रवीत् । भद्रे । सातीव निपुणा व्यवहार- 15 कुशला च । ततस् त्याज्या एते तिलाः । यतः । नाकस्माच् छाण्डिलीमाता विक्रीणाति तिलैस तिलान । इति ॥ ___*तन निश्चितं निधानोपजनिताच कूर्दनशक्तिर अस्य । 15 एवम् उक्वा स भूयो ऽय् आह । अथ ज्ञायते तस्य क्रमणम् । वूटकर्ण आह । भगवन । ज्ञायते । यतो न स एकाकी समभ्येति । किं तु यूथपरिवृतः । बृहत्स्फिम् आह । भोः । समस्ति किंचित् - * खनित्रकम् । सो ऽब्रवीत् । बाढम् अस्ति । एषा सुहस्तिका सर्वलोहमयी । अभ्यागत आह । तर्हि । प्रत्यूषे त्वया मया सह प्रबोद्धव्यम । येन हाव् अपि चरणमलितायां भूमौ तत्पादानु- ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org