________________
OR, THE DOVE, MOUSE, CROV, TORTOISE, AND DEER. Book II. 137
Tale iii: Hulled grain for unhulled.
॥ कथा ३॥ कदाचिद् अहं कस्मिंश्चिद् अधिष्ठान ऋतुयहणनिमित्तं कम अपि ब्राह्मणम आवासार्थ प्रार्थितवान् । ततो मम ब्राह्मणेनावासो दतः । तचाहं देवतार्चनादिपरस तिष्ठामि । अथान्यस्मिन्न अहनि प्रत्यूषप्रबुद्धो ब्राह्मणब्राह्मण्योः संवादं दत्तावधानः शृणोमि । ब्राह्मणः प्राह । ब्राह्मणि । प्रभाते दक्षिणायनसंक्रान्तिर् अनन्त- ७ फलदा भविष्यति । तद् अहं ग्रामान्तरं प्रतिग्रहार्थ यास्यामि । त्वया ब्राह्मणस्यैकस्य सूर्योद्देशेन यथाशक्ति भोजनं दातव्यम । इति । अथ तच् छ्रुत्वा ब्राह्मणी परुषवचनैस तं भर्सयमाना " प्राह । कुतस ते दरिद्रस्य ब्राह्मणस्य भोजनप्राप्तिः । तत् किं न लज्जस एवं ब्रुवन । अपि च ।
न मया तव हस्तायं । प्राय लब्धं कचित मुखम। 12
नास्वादितं च मिष्टान्नं । का कथा भूषणादिषु ॥५४॥ तच् छ्रुत्वा भयवस्तो विजो मन्दं मन्दं प्राह । ब्राह्मणि । नैतद् युज्यते वक्तुम् । उक्तं च।
ग्रासाद् अर्धम अपि पासम । अर्थिभ्यः किं न दीयते । इच्छानुरूपो विभवः । कदा कस्य भविथति ॥५५॥ तथा च।
ईश्वरा भूरिदानेन । यल लभन्ते फलं किल । दरिद्रस तच च काकिण्या । प्राप्नयाद् इति नः श्रुतिः॥५६॥ यच्छज जलम् अपि जलदो। वल्लभताम एति सकललोकस्य । 21 नित्यं प्रसारितकरो । मिमो ऽपि न वीक्षितुं शक्यः ॥५७॥ ar
16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org