________________
136
Book II. THE WINNING OF FRIENDS%3B
Tale il: Mouse and two monks.
तथैकमठप्राण्यापि त्वं गर्वितस त्यक्तसुहृत्स्नेहो नेतद् वेसि । यन मठाश्रयव्याजेन नरकोपार्जना कृता । उक्तं च । यतः।
नरकाय मतिम ते चेत् । पौरोहित्यं समाचर।
वर्षे यावत् किम् अन्येन । *माठपत्यं दिनत्रयम् ॥५१॥ तत् । मूढ । शोचितव्ये ऽप्य् अर्थे त्वं गर्वितः । इति । अथ तच छुत्वा भयत्रस्तमना बूटकर्णः प्राह । भो भगवन् । मा मैवं वद । न त्वतो ममान्यसुहत को ऽप्य् अस्ति । तच छूयतां गोष्ठीशैथिल्यकारणम् । एष दुरात्मा मूषकः प्रोन्नतस्थानस्थम अपि भिक्षापात्रम उत्कूारुह्य भिक्षाशेषं भक्षयति । तदभावे कर्मकरा वृत्तिछेदान मार्जनादिकर्म न कुर्वन्ति । तन मूषकवासार्थेनानेन वंशेन मुहुर् मुहुर् भिक्षापात्रं ताडयामि । नान्यत् कारणम् । इति । अपरम् । एतत् कुतूहलम एतस्य दुरात्मनः । यद् उत्पतनेन 12 मार्जारमर्कटादयो ऽपि तिरस्कृताः । बहत्स्फिग् आह । अथ ज्ञायते कस्मिंश्चित प्रदेशे तस्य बिलम । वूटकर्ण आह । भो भगवन । न वेद्मि । सो ऽब्रवीत् । नूनं निधानस्योपरि तस्य 15 बिलम । निधानोमणा निश्चितं द्राक् कूदते ऽसौ । उक्तं च ।
ऊष्मा हि वितजो वृद्धिं । तेजो नयति देहिनाम।
किं पुनस तस्य संभोगस । त्यागधर्मसमन्वितः ॥५२॥ तथा च। नाकस्माच् छाण्डिलीमाता । विक्रीणाति तिलैस तिलान।
लुञ्चितान इतरैर् यत्र । हेतुर् अत्र भविष्यति ॥५३॥ 21 बूटकर्ण आह । कथम् एतत् । सो ऽब्रवीत् ।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org