SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Tale ii: Mouse and two monks. तदुद्धरितशेषम् अन्नं भिक्षापात्रे गुप्तं कृत्वा प्रात्यूषिकपरिचारकार्य नागदन्ते स्थापयति । अहं तु सपरिजनस् तेन जीवामि । एवं च कालो ऽतिवर्तते । सुप्रयत्नम् अवस्थापिते ऽपि तस्मिन् मया भक्ष्यमाणे स परिव्राड् निर्विणो मत् प्रति भयात् स्थानात् स्थानम् उच्चैस्तरं प्रतिसंक्रमयति । तथापि तद् अहम् अनायासेनैव प्राप्नोमि भक्षयामि च । अथ कदाचित् तच बृहत्स्फिग्नामा तापसः प्राघूर्णकः समायातः । बूटकर्णो ऽपि तस्य स्वागताधुपचारं कृत्वा * श्रमम् अपनीतवान् । ततश च राचाव् एकत्र स्रस्तरे द्वाव् अपि सुप्तौ धर्मकथां कर्तुम् आरब्धौ । अथ बूटकर्णो मूषकरक्षाक्षिप्तमना जर्जरवंशेन भिक्षापाचं ताडयन् * बृहत्स्फिगो धर्मकथां कथयतः शून्यं प्रतिवचनं प्रयच्छति । अथासाव् अभ्यागतः परं कोपम् उपागतस् तम् उवाच । भो बूटकर्ण 'परिज्ञातस् त्वं सम्यग् मया गतसौहृदः । तेन मया सह साह्लादं न जल्पसि । तद् रात्राव् अपि त्वदीयमढं त्यक्त्वान्यत्र यास्यामि इति । उक्तं च । यतः । एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वाति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥४८॥ santa अन्यच् च । यश चागते * प्राघुणके । दिशो वीक्षेत वाप्य् अधः । ये यान्ति सदने तस्य ' ते शृङ्गरहिता वृषाः ॥ ४९ ॥ नाभ्युत्थानक्रिया यत्र 'नालापमधुरा गिरः । गुणदोषकथा नैव ' तस्य हर्म्ये न गम्यते ॥५०॥ Book II. Jain Education International For Private & Personal Use Only 135 3 6 9 12 15 18 21 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy