SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Book II. TIIE WINNING OF FRIENDS%3B 134 Tale il: Mouse and two monks. Frame-story. - तद् एवं श्रुत्वा हिरण्यको ऽपि *तत्पृष्ठोपरि समारूढः । सो ऽपि संपातोड्डयनेन प्रस्थितः। ततः शनैः शनैस तेन स तं इदं प्रापितः । अत्रान्तरे मूषकाधिष्ठितं वायसम् अवलोक्य देशकालवित । को यम् । इति 3 विचिन्त्य मन्थरकः सत्वरं जले प्रविष्टः । लघुपतनको ऽपि तत्तीरस्थतरकोटरे हिरण्यं मुत्का शाखाग्रम आरुह्य तारस्वरेपोवाच । भो मन्थरक । आगच्छ । तव मित्रम् अहं वायसश् चिरात् सोत्कण्ठहृदयः समायातः । तद् आगत्यालिङ्ग माम् । इति । उक्तं च । 6 यतः। किं चन्दनः सकर्पूरैस् । तुषारः किम् उ शीतलैः।। सर्वे ते मित्रगात्रस्य । कलां नाहन्ति षोडशीम् ॥४५॥ तच् छ्रुत्वा निपुणतरं परिज्ञाय पुलकिततनुर् आनन्दाश्रुप्लुतनयनः सत्वरं सलिलान 9 निष्क्रम्य । न मया परिज्ञातो ऽसि । इति ममापराधः क्षम्यताम् । इति ब्रुवन् मन्थरको वृक्षोत्तीर्ण लघुपतनकम आलिङ्गितवान् । एवं तौ वाव अपि विहितालिङ्गनी पुलकितशरीरौ वृक्षाधस्ताद उपविष्टाव आत्मचि- 12 रन्तनवृत्तान्तं परस्परं प्रोचतुः । हिरण्यो ऽपि मन्थरकं प्रणम्य तत्रोपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकम आह । भोः । को ऽयं मूषकः । कस्माच् च भक्ष्यभूतो ऽयं पृष्ठम् आरोग्याच समानीतः । तच् छुत्वा लघुपतनक आह । भोः । हिरण्यनामा 15 मूषको ऽयं मम सुहृद् द्वितीयम् इव जीवितम् । तत् किं बहुना। पर्जन्यस्य यथा धारा। यथा च दिवि तारकाः। भूतले रेणवो यत् । संख्यया परिवर्जिताः ॥४६॥ गुणाः संख्यापरित्यक्तास् । तद् अस्य महात्मनः। परं निर्वेदम आपन्नः । संप्राप्तोऽयं तवान्तिकम् ॥४७॥ मन्थरक आह । किम् अस्य वैराग्यकारणम् । वायस आह । पृष्टो मधेतत् तत्रैव । परम् । 21 बहु वक्तव्यम् । एतत् तत्रैव गतः कथयिष्यामि । इत्य उक्त्वा ममानेन न कथितम् । तत्। भद्र हिरण्य । इदानीम् आवयोर् वैराग्यकारणं निवेदय । हिरण्यः कथयति । 18 ॥ कथा २॥ अस्ति दाक्षिणात्ये जनपदे प्रमदारोग्यं नाम नगरम । तस्य नातिदूरे महेश्वरायतनम् । तत्प्रत्यासन्ने मठे परिवाइ बूटकों नाम प्रतिवसति स्म । स च भिक्षावेलायां तस्मान नगरात 27 सखण्डगुडदाडिमगर्भाणां स्निग्धद्रवपेशलानां भक्ष्यविशेषाणां भिक्षाभाजनं संपूर्ण कृत्वा मठम आगत्य यथाविधि प्राणयानां कृत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy