________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Frame-story: Dove, mouse, crow, tortoise, and deer.
किं बहुना ।
ददाति प्रतिगृह्णाति । गुह्यम् आख्याति पृच्छति । भुङ्क्ते भोजयते चैव । षड्विधं प्रीतिलक्षणम् ॥ ३९ ॥ नोपकारं विना प्रीतिः । कथंचित् कस्यचिद् भवेत् । उपयाचितदानेन । यतो देवो ऽपि तुष्यति ॥ ४० ॥ तावत् प्रीतिर् भवेल लोके । यावद् दानं प्रदीयते । वत्सः क्षीरचयं दृष्ट्वा । स्वयं त्यजति मातरम् ॥ ४१ ॥ प्रीतिं निरन्तरां कृत्वा । दुर्भेदां नखमांसवत् । मूषको वायसश् चैव । गताव एकान्तमित्रताम् ॥ ४२ ॥
एवं स मूषकस् तदुपकाररञ्जितमनास तथा विश्वस्तः । यथा तत्पचतिमध्ये प्रविष्टः सदा । तिष्ठति ।
Book II.
133
Jain Education International
3
अथान्यस्मिन् अहनि वायसो ऽश्रुपूरितनयनः समागत्य सगद्गदम् उवाच । भद्र हिरण्य । मम विरक्तिः संजातास्य देशस्योपरि । तद् ग्रास्याम्य् अन्यत्राहम् । हिरस्य 12 आह । भद्र । किं कारणं विरक्तेः । सो ऽब्रवीत् । भद्र । श्रूयताम् । अस्मिन् देशे महत्व् अवृष्टिः संजाता । सर्वो ऽपि नगरजनो बुभुचापीडितो बलिमात्रम् अपि न प्रयच्छति । अपरं गृहे गृहे विहंगबन्धनार्थ पाशाः प्रगुणीकृताः । अहम् अप्य् आयुः शेषतया पाशे 15 न पतितः । तेनाहं विदेशचलितो बाष्पमोक्षणं करोमि । इति । तेनाहं देशान्तरे यास्यामि । हिरण्य आह । तर्हि । क्व यास्यसि । इति कथय । स आह ।
For Private & Personal Use Only
6
अस्ति दक्षिणापथे वनगहनमध्ये महान् ह्रदः । तत्रास्ति त्वत्तो ऽप्य् अधिकः 18 परमसुहृन् मन्थरको नाम कूर्मः । स मे लघुमत्स्यमांसशकलानि दास्यति । इति । तेन सह सुभाषितगोष्ठीसुखम् अनुभवम् सुखेन कालं नेष्यामि । यतो नाहम् ईदृक्पक्षिचयं द्रष्टुं शक्रोमि । उक्तं च । यतः ।
धन्यास् तात न पश्यन्ति । देशभङ्गं कुलक्षयम् ।
परहस्तगतां भार्या । मित्रं च विषमस्थितम् ॥ ४३ ॥
हिरण्य आह । यद्य् एवम् । तर्हि । अहम् अप्य् आगमिष्यामि । यतो ममापि महद् 24 दुःखम् अस्ति । स आह । किं दुःखम् । हिरण्य आह । भोः । बहु वक्तव्यम् अस्ति । तत्रैव गतस् ते सर्व निवेदयिष्यामि । वायस आह । अहं तावद् आकाशगतिः । भवान् भूचरः । तत् कथं मया सह तत्र गमिष्यति । स आह । यदि मत्प्राणे रजितैः प्रयोजनम् । 27 तद्रात्मपृष्ठम् आरोष्य शनैः शनैर् माम् उद्वहस्व । इति । तच् छ्रुत्वा सानन्दो वायसः प्राह । यद्य् एवम् । तद् धन्यो ऽहम् । न मत्तः समस्त्य् अन्यो धन्यतरः । तद् एवं क्रियताम् । अहं हि संपातादिकान्य् अष्टाव् उड्डयनानि वेद्मि । तत् त्वां सुखेन नेष्यामि । 20 हिरण्य आह । भोः । उड्डयननामानि श्रोतुम् इच्छामि । वायस आह ।
संपातं च विपातं च । महापातं निपातनम् ।
वक्रं तिर्यक् तथा चोर्ध्वम् । अष्टमं लघुसंज्ञकम् ॥ ४४ ॥
21
33
www.jainelibrary.org