SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 131 Frame-story: Dove, mouse, crow, tortoise, and deer. वायस आह । भोः । भवता सह मम दर्शनम् अपि नास्ति । कुतो वैरम् । तत् किम् अनुचितं वदसि । हिरण्य आह । भोः । वैरं *द्विविधं भवति । सहजं कृत्रिमं च। तत् सहजवेरी त्वम् अस्माकम् । ततः। कृत्रिमं नाशम आयाति । वैरं द्राक् कृत्रिमर गुणैः । प्राणदामं विना नैव । सहज याति संक्षयम् ॥२५॥ वायस आह । भोः । विविधस्यापि वैरस्य लक्षणं श्रोतुम् इच्छामि । सं आह । भोः । । कारणेन निष्पादितं कृत्रिमम् । तत् तद् अर्होपकारकरणाद् गच्छति । स्वाभाविकं पुनः कथम् अपि नापगच्छति । तच् च नकुलसर्पाणाम् । शष्पभुमखायुधानाम् । जलानलयोः। देवदैत्यानाम् । सारमेयमार्जाराणाम्। सपत्न्योः । सिंहगजानाम् । लुब्धकहरिणानाम्। काकोलूकानाम् । पण्डितमूर्खाणाम् । पतिव्रताकुलटानाम् । सज्जनदुर्जनानां च नित्यवरं भवति । न च कस्यचित् केनापि कोऽपि व्यापादितः । तथापि प्राणान्ताय यतन्ते । वायस आह । अकारणम् एतत् । श्रूयतां मे वचनम्। 12 कारणान मित्रताम् एति । कारणाद् याति शत्रुताम् । तस्मान मित्रत्वम् एवात्र । योज्यं वैरं न धीमता ॥२६॥ हिरण्य आह । त्वया सह मम कः समागमः । श्रूयतां नीतिसर्वस्वम् । सकृद् दुष्टं च यो मित्रं । पुनः संधातुम् इच्छति । स मृत्युम् एव गृह्णाति । गर्भाद् अश्वतरी यथा ॥२७॥ तथा च। सिंहो व्याकरणस्य कर्तुर अहरत् प्राणान् प्रियान् *पाणिनेर मीमांसाकृतम् उन्ममाथ सहसा हस्ती मुनि *जैमिनिम्। छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्। अज्ञानावृतचेतसाम् अतिरुषां कोर्थस् तिरश्च गुणैः ॥२८॥ sardi 21 वायस आह । अस्त्य् एतत् । परं श्रयताम्। उपकाराद् धि लोकानां । निमित्तान मृगपक्षिणाम्। भयलोभाच् च मूर्खाणां ! मैत्री स्थाद् दर्शनात् सताम् ॥ २९ ॥ किं च। मृवट द्व सुखभेद्यो । दुःसंधानश् च दुर्जनो भवति । सुजनस तु कनकघट व । दुर्भेद्यः सुकरसंधिश् च ॥३०॥ अपि च। दोर अग्रात् क्रमशः । पर्वणि पर्वणि यथा रसविशेषः। तद्वत् सज्जनमैत्री। विपरीतानां तु विपरीता ॥३१॥ तत् सर्वथा साधुर् एवाहम् । अपरं त्वां शपथैर् निर्भयं करोमि । हिरण्य आह । न ऽस्ति खदोयशपथैः प्रत्ययः । उक्तं च ।। शपथैः संहितस्यापि । न विश्वासं रिपोर् व्रजेत् । अत्यर्थ शपथं कृत्वा । वृत्रः शक्रेण मूदितः ॥ ३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy