________________
130
Book II. THE WINNING OF FRIENDS ;
Frame-story: Dove, mouse, crow, tortoise, and deer.
15
तच छत्वा हिरण्यः प्राह। भोः। वेद्य अहम इमं स्वामिधर्मम् । परं तव परीक्षाकृते मयूतद् अभिहितम् । ततः सर्वेषां पाशच्छेदं करिष्यामि । भवान अप्य एतैर् बहुपरिवारो भविष्यति । उक्तं च । यतः।
कारुण्यं संविभागश् च । *यस्य भृत्येषु सर्वदा ।
संभाव्यः स महीपालस। त्रैलोक्यस्यापि रक्षणे ॥२०॥ एवम उक्त्वा सर्वेषां पाशच्छेदं कृत्वा हिरण्यश चित्रग्रीवं प्राह । सखे । गच्छाधुना 6 स्वाश्रयम्। चित्रग्रोवो ऽपि सपरिवारः खाश्रयम् अगमत् । साधु चेदम उच्यते ।
मित्रवान साधयेत् कार्य । दुःसाधम् अपि वै यतः।।
तस्मान मित्राणि कुर्वीत । समान्य *एव श्रियात्मनः ॥२१॥ लघपतनकोऽपि सर्व चित्रग्रीवस्य *बन्धनं मोक्षं च विलोक्य विस्मितमना व्यचिन्तयत् । अहो बुद्धिर अस्य हिरण्यस्य । शक्तिश च । दुर्गसामग्री च । तस्मान् ममापि युक्तं हिरण्येन सह मैत्रीकरणम्। यद्य अप्य अहं चञ्चलप्रकृतिः कस्यापि न विश्वास व्रजामि। 12. न च केनापि वञ्चितुं शक्यः । तथापि मित्र कार्यम् एव । उक्तं च ।
संपूर्णेनापि कर्तव्यं । मित्रम अभ्युदयार्थिना।
उदधिः परिपूर्णो ऽपि । स्वातेर जलम् अपेक्षते ॥२२॥ एवं मत्वा पादपाद् अवतीर्य बिलद्वारम् आश्रित्य पूर्वोपलब्धनामानं हिरण्यम आहूतवान् । भद्र हिरण्य । इतस तावत् । इति ।
तच छुत्वा हिरण्यो व्यचिन्तयत् । किम अन्यो ऽपि कश्चित् सावशेषबन्धनः कपोतस 18 तिष्ठति। यो मां व्याहरति । इति। आह च। भोः। को भवान्। वायस आह । अहं लघुपतनको नाम वायसः। तच कृत्वा हिरण्यो विशेषाद् अन्तर् लीनः प्राह । भद्र । गम्यताम अस्मात् स्थानात् । स प्रत्याह । अहं तव पार्श्व गुरुकायेण समायातः। तत् क्रियतां मया 21 सह दर्शनम् । इति । हिरण्य आह । न मे ऽस्ति त्वत्संगमेन प्रयोजनम् । इति । स आह । भोः। चिचग्रीवबन्धमोक्षणं त्वत्सकाशाद दृष्ट्वा मे महती प्रतीतिः संजाता। तन ममापि कदाचिद् बन्धने संजाते तव पाश्चोन् मुक्तिर भविष्यति । इति । तत् क्रियतां मया सह 24 मैची। हिरण्यः प्राह । भोः । त्वं परिभोक्ता । अहं भोज्यभूतः । का त्वया सह मम मैत्री। उक्तं च। *यो मित्रं कुरुते मूढ । आत्मनो ऽसदृशं कुधीः। हीनं वाप्य अधिकं वापि । हास्यतां यात्य असौ जने ॥ २३॥
27 तद् गम्यताम् । इति । वायस आह । भोः । एषो ऽहं तव दुर्गद्वार उपविष्टः । यदि त्वं । मैवीं न करोषि। ततः प्राणयात्रां न करिष्यामि । हिरण्य आह । भोः । कथं त्वया वैरिणा सह मैत्री करोमि । उक्तं च ।
शत्रुणा न हि संदध्यात् । सुसिष्टेनापि संधिना। सुतप्तम् अपि पानीयं । शमयत्य एव पावकम् ॥२४॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org