________________
Book II. THE WINNING OF FRIENDS3B
128
Frame-story: Dove, mouse, crow, tortoise, and deer.
co
वितानबन्धं कृत्वा निर्भयं प्रस्थिताः । लब्धको ऽपि पक्षिभिर जालम अपहियमाणं दृष्टा विस्मितमना ऊर्ध्वाननः । अदृष्टपूर्वम् इदम् । इति चिन्तयन लोकम् अपठत् ।
संहतास तु हरन्तीमे । मम जालं विहंगमाः।।
यदा तु विवदिष्यन्ति । वशम एष्यन्ति मे तदा ॥७॥ इति विचार्यानुसर्पितुम् आरब्धः । चित्रग्रीवो ऽपि तं क्रूरम् अनुगच्छन्तं दृष्ट्वा तदभिप्रायं च ज्ञात्वानाकुलमना गिरितरुविषमभूभागानाम् उपरि गन्तुम् आरब्धः। लघुप-6 तनकश च चित्रग्रीवस्य मुनयचरितेन व्याधस्य च दुरध्यवसायेन विस्मितमना ऊर्ध्वम् अधश् च मुहर् मुहर् निरीक्षमाण आहारचिन्ताम् उत्सृज्य कौतुकपरस तद् एव कपोतवृन्दम् अनुगतश चिन्तयति । किम् एष महात्मा । किम् अयं दुरात्मा च करि-9 ष्यति । इति । अथ लुब्धको ऽपि विषममार्गव्यवहितं कपोतचक्रं ज्ञात्वा विहताशः प्रतिनिवृत्तो ऽब्रवीत्।
न हि भवति यन् न भाव्यं । भवति च भाव्यं विनापि यत्नेन ।
.. करतलगतम् अपि नभ्यति । यस्य च भवितव्यता नास्ति ॥८॥ . ar किं च। पराङ्मुखे विधौ पुंसां । यदि चेत् स्याद् धनागमः।
तत सो ऽन्यद् अपि संगृह्य । याति शङ्खनिधिर् यथा ॥९॥ 16 तद् आस्तां तावद् विहगामिषलाभः । कुटम्बजीवनोपायभूतं तज जालम् अपि नष्टम्।
अत्रान्तरे चित्रग्रीवस तं निराशं प्रतिनिवृत्तं दृष्ट्वा तान् कपोतान् उवाच । भोः । विश्रब्धं गम्यताम्। निवृत्ती दुरात्मा लुब्धकः । तद अचास्माकं प्रमदारोप्ये नगरे गमनं 1 श्रेयः । यतस् तत्र प्रागुत्तरदिग्भागे हिरण्यो नाम मूषको मम प्रियसुहृत प्रतिवसति । स चास्माकम अविलम्बितं पाशच्छेदं करिष्यति । सम
आपद्विमोक्षणाय। इति । अथ तथैवानुष्ठिते हिरण्यमूषकदिदृक्षवस ते सर्वे तद्विलदुर्गम आसाद्य भूमाव् अवतेरुः । 21 अथ च । अनागतं भयं दृष्ट्वा । नीतिशास्त्रविशारदः।
अपसन मूषकस तच । कृत्वा शतमुखं बिलम् ॥१०॥ अथवं सति पक्षिपाताशङ्कितहृदयो हिरण्यो ऽपि बिडालपदमा निजबिलदुर्गमार्गम् 24 अनुसत्य । किम् इदम् । इति वीक्षितुम् आरब्धः । चित्रग्रीवो ऽपि बिलद्वारावस्थित एवम् आह । भद्र हिरस्य । इतः सत्वरम एहि । पश्य म नाम अवस्थाम्।
सच् च श्रुत्वा दुर्गान्तर्गत एव हिरण्यो ऽब्रवीत् । भद्र। को भवान। किमर्थम् आयातः। 27 कीदक च १ व्यसनम् । तत् कथ्यताम् । इति । तच कृत्वा चिचग्रीव आह । भोः । विषयीवो नाम कपोतपतिस तव मुबत् । सत्वरम् आगच्छ । तद् आकर्ण्य पुलकिततनुः प्राष्टात्मा स्वरमाणो निष्क्रामन्न अब्रवीत्।
सुखदः स्नेहम आपन्ना ।लोचनानन्ददायिनः। गृहे गृहवतां नित्यम् । आगच्छन्ति कृतात्मनाम् ॥११॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org