SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ THE WINNING OF FRIENDS. Book II. 127 Frame-story. Frame-story. Tale i: Bird with two necks. तद्भक्षणार्थ तन् महाजालम् अपतत् । संनिपातसमकालम् एव सपरिवारः स्नायुपाशेर बद्धश च । अथवा दैवप्रतिकूलतया भवत्य एवम् । न कश्चिद् अस्य दोषः । उक्तं च । पौलस्त्यः कथम अन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्थासंभवो लक्षितः। अवैश चापि युधिष्ठिरेण मुमहान प्राप्ती ह्य अनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥३॥ sardū c तथा च। कृतान्तपाशबद्धानां । दैवेनाविष्टचेतसाम्। बुद्धयः कुब्जगामिन्यो । भवन्ति महताम् अपि ॥४॥ अथ लुब्धको पि प्रहृष्टमना लगुडम् उद्यम्य प्रधावितः । चित्रग्रीवो ऽपि सानुचरः १ पाशबन्धव्यसनाकुलम तम् आयान्तं दृष्ट्वा प्रत्युत्पन्नमतितया तान् कपोतान अब्रवीत् । अहो न भेतव्यम् । न भेतव्यम् । यतः । व्यसनेष्व अपि सर्वेषु । यस्य बुद्धिर् न हीयते । स तेषां पारम् अभ्येत्य । प्राप्नोति परमं सुखम् ॥५॥ तत् सर्वेर अप्य एकचित्तर भूत्वा संघातनोत्पत्य जालम् अपहर्तव्यम् । अन्यथा संघातं विना न शक्यते जालम् अपहर्तुम् । यतो ऽसंहतचित्तानां मृत्युर् एव भवति । उक्तं च। 15 एकोदराः पृथग्ग्रीवा। अन्यान्यफलभक्षिणः। असंहता विनश्यन्ति । भारुण्डा व पक्षिणः ॥६॥ कपोताः पृच्छन्ति । कथम् एतत् । चित्रग्रीवः कथयति । ___ 12 ॥ कथा १॥ इह हि कस्मिंश्चित् सरसि भारुण्डा नाम पक्षिणः प्रतिवसन्ति स्म । तेषाम् उदरम् एकं ग्रीवे च हे पृथक् पृथग भवतः । अथ 21 तेषां मध्यात् कस्यापि पक्षिणः स्वेच्छया विचरत एकया पीवया क्वाप्य अमृतं प्राप्तम् । अथ द्वितीययाभिहितम् । ममाप्य अर्थ देहि । अथ यदा तया न दतम् । तदा द्वितीययीवया कोपान कुतो 24 ऽप्य् अन्विष्य भक्षिते विष एकोदरत्वान् मृत्युर् अभवत् ॥ अतोऽहं ब्रवीमि । एकोदराः पृथग्ग्रीवाः । इति । एवं संघात एव समर्थः । इति श्रुत्वा . ते कपोता जीवितार्थिनः संघातेन जालम् अपहृत्यूषुषेपमात्रम् ऊर्ध्वम् उड्डीय वियति 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy