SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ IAWAN AM ARTISTER LAN VIE TOSAWAVEL JAGR5 V ॥ अहम् ॥ अश्रुदम् आरभ्यते मित्रसंप्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम आदिमः श्लोकः । असाधना वित्तहीना। बुद्धिमन्ती बहुश्रुताः। साधयन्य आशु कार्याणि । काकाखुमृगकूर्मवत् ॥१॥ राजपुत्राः पृच्छन्ति । कथम् एतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये जनपदे प्रमदारोष्यं नाम नगरम् । तस्य नातिदूरे महोच्छ्रायो 6 महास्वन्धशाखोपचितो न्यग्रोधपादपः सर्वाश्रयो ऽस्ति । उक्तं च । छायासुप्तमृगः शकुन्तनिवहर आलीननीलच्छदः कीटेर आवतकोटरः कपिकलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर् निपीतकुसुमः श्लाघ्यः स एव द्रुमः सङ्गिर बहुसत्त्वसंघसुखदो भूभारभूतो ऽपरः ॥२॥ sārdū तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्रातः प्राणयात्रार्थ 12 पुरम् उद्दिश्य प्रचलितः । तदधिष्ठानवासिनं पक्षिबन्धननिमित्तम आयान्तम् उग्ररूपं स्फुटितकरचरणम उद्बद्धपिण्डिकम् अतिपरुषशरीरच्छविं रक्तान्तनयनं श्वभिर अनुगम्यमानम् ऊर्ध्वबद्धशिरोरुहं जाललगुडपाणिम् । किंबहुना । द्वितीयम् व *कालं 15 पाशहस्तम् । अवतारम व पापस्य । हृदयम् वाधर्मस्य । उपदेष्टारम व सर्वपातकानाम् । सुहृदम व मृत्योर वृक्षाभ्याशम आगतं व्याधम् एकम् अपश्यत् । अथ तं । अयं पापश चिकीर्षति । किं ममैवानर्थाय । आहो 18 *स्वित् कश्चिद अन्योऽस्थाध्यवसायः। इति कौतुकपरस तम एव पृष्ठतो ऽनुगम्यावस्थितः। अथ व्याधो ऽपि तत्रैकदेशे जालं वितत्य धान्यकणान अवकीर्य ततो नातिदूरे निभृतः स्थितः । अत्र ये तत्र पक्षिणः सन्ति । ते लघुपतनकवाक्यार्गलया नियन्त्रितास तांस 21 तण्डुलान् हालाहलम व मन्यमानास तूष्णीं तस्थुः।। __ अचान्तरे कपोतशतैः परिवृतश चित्रग्रीवो नाम कपोतराजः प्राणयात्रार्थ परिभ्रमंस तांस तण्डुलान दूरतोऽप्य अपश्यत् । अथ लघुपतनकेन निवार्यमाणोऽपि जिह्वालोल्यात 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy