________________
124
Book I. THE ESTRANGING OF FRIENDS%3D
Frame-story: Lion and bull.
Frem
rath
उक्तं च। भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशे। भृत्वप्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ ४२७॥
indra तं चैवं पिङ्गलकम् अधृतिपरीतं दृष्ट्वातिधृष्टतया शनैः शनैर् उपसृत्य दमनको ऽब्रवीत् । स्वामिन् । क एष न्यायः । यत् सपत्नं हत्वाधृतिः क्रियते । उक्तं च ।
पिता वा यदि वा धाता। पुत्री वा यदि वा सुहृत् ।
प्राणद्रोहे प्रवृत्तः सन् । हन्तव्यो भूतिम इच्छता ॥४२८॥ किं च। राजा घृणी *ब्राह्मणः सर्वभक्षी
स्त्री चावशा दुष्टबुद्धिः सहायः। प्रेष्यः प्रतीपो ऽधिकृतः प्रमादी . त्याज्याः सर्वे यश च कृत्यं न वेत्ति ॥४२९॥
upa 12 गच्छ दूरम् अपि यत्र नन्दसि पृच्छ बालम् अपि पण्डितं जनम्। देहि देहम् अपि याचितोऽर्थिने
छिन्द्धि बाहुम् अपि दुष्टम् आत्मनः ॥४३०॥ मों राज्ञाम् । यः किल प्राकृतपुरुषाणां साधारणः। उक्तं च ।
न मनुष्यप्रकृतिना । शक्यं राज्यं प्रशासितुम्।
ये हि दोषा मनुष्याणां । त एव नृपतेर् गुणाः॥४३१॥ अपि च। सत्यानृता च परुषा प्रियवादिनी च
हिंसा दयालुर् अपि चार्थपरा वदान्या। नित्यव्यया प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनीतिर अनेकरूपा ॥ ४३२॥
vasa अथानागतम् एव समागत्य सिंहसकाशे समुपविष्टः करटको दमनकं प्रत्य अब्रवीत् । 24 भवांस तावन् मन्त्रित्वम् एव न *जानाति । यतो दयोः परस्परप्रीत्युपभोगयोर व्युच्छित्तिकारणं भेदः । न च नीतिर् एषा मन्त्रिणाम । यत् सामदानभेदसाध्येषु कृत्येषु विद्यमानेष्व् आत्मीयभृत्यस्योपरि स्वामी युद्धोपदेशेन संशयम आरोप्यते । उक्तं च। 27
धनदस्य तथैव वज्रिणः
पवनस्याथ जलेश्वरस्य च । कलहैः खलु खण्डिताः श्रियः - कलहो नित्यजयो न कस्यचित् ॥४३३॥
viyo . किं च। नयाद् अपेतं प्रवदन्ति युद्धं
युद्धं व्यवस्यन्ति हि बुद्धिहीनाः।
नचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org