________________
123
OR, THE LION AND THE BULL. Book I. Tale xxx b: Foolish friend.
Frame-story.
आकृष्य भ्रमरम अनु प्रहारं पातितवान । तेन च प्रहारेण राज्ञः शिरश छिन्नम् । अथ सहसुप्ता राजमहिषी त्रासादु उत्थिता । तादृशं चासमञ्जसम आलोक्य क्रन्दित वती । आह च । रे रे मूर्खवानर । विश्वस्ते राजनि किम इदम एवम अनुष्ठितं त्वया । इति । वानरो ऽपि यथावृत्तम् आख्यातवान् । ततो मिलितसर्वलोकेनाक्रुश्य परिहतः ॥
अत एवोच्यते । न तु मित्रम् अपण्डितं कार्यम् । यतो वानरेण हतो नृपः । इति । अतो ऽहं ब्रवीमि।
पण्डितो ऽपि वरं शत्रुर् । न तु मित्रम् अपण्डितम् ।
स्ववध्याथै मृतश चौरो। वानरेण हतो नृपः ॥४२१॥ पुनः करटक आह ।
*पैशुन्यमाबकुशलः । सौहार्दस्य विनाशकः ।
प्रमाणं त्वादृशो यच । तत् कार्य न शुभं भवेत् ॥४२२॥ तथा च। स्थितो ऽप्य अन्त्यास्व अवस्थासु । *नैवाकार्य व्यवस्यति। .
*साधुस तत् कुरुते येन । न लोके दूष्यते यशः ॥४२३॥ तथा। अन्त्यावस्थो ऽपि बुधो। न गुणान् विजहाति जातिशुद्ध्यासी।
न श्वेतभावम् उज्झति । शङ्खः शिखिभुक्तमुक्तो ऽपि ॥४२४॥ उक्तं च। यद् अकार्यम अकार्यम् एव तन्
न बुधस तत्र मतिं प्रयोजयेत्। परयापि तृषा प्रबाधितर् न हि रध्यागतम् अम्बु पीयते ॥४२५॥
viyo 21 किं च। कर्तव्यम् एव कर्तव्यं । प्राणैः कण्ठगतैर् अपि।
अकर्तव्यं न कर्तव्यं । प्राणैः कण्ठगतैर् अपि ॥ ४२६॥ इत्य उक्तस तदीयनीतिमार्गानुगं वचनं कूटबुद्धिवाद् विषम व मन्यमानो दमनको 24
पसृतः। ___अचान्तरे ती पिङ्गलकसंजीवको क्रोधान्धितधियो युद्धाय पुनर् उद्यती । ततः पिङ्गलकः संजीवकं व्यापाद्य प्रशान्तकोपो ऽसृग्दिग्धपाणिना स्मृतपूर्वस्नेहवशात् करुणया 27 बाष्पा; नयने प्रमृज्य सपश्चात्तापम इदम अब्रवीत् । अहो कष्टम् । महद् इदम अकृत्यम्। मया हि द्वितीयम् वात्मशरीरं संजीवकं व्यापादयतात्मन एवापकृतम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org