________________
122
Book I. THE ESTRANGING OF FRIENDS%3B
Tale xxx b: Foolish friend.
आच्छेनु पर्यालोच्य वणिक्पुत्रो भाण्डागारिकत्वे नियोजितः । अथ प्रचुरं वरकरितुरंगपतिदलं द्विगुणार्थदानतो मेलयित्वा तस्य च मन्त्रिणः पाहुण्य बुद्धिबलेन विग्रहम् आरभ्य संग्रामेण व्या- ५ पाद्य राजानं स राजपुत्रस् तद्राज्यम् एव गृहीत्वा राजा बभूव । मित्रहये ऽप्य आरोपितसर्वाङ्गराज्यचिन्ताभारः स्वच्छन्दवृत्तिर् विलाससौख्यान्य अनुबभूव । अन्यदा च तेनान्तःपुरसमाश्रितेन प्रत्यासन्नमन्दुरावानर एकः कौतुकात् सदात्मसंनिहितः कृतः । यतः शुकचकोरपारापर्तमेषवानरादयः प्रकृत्यैव राज्ञां प्रिया भवन्ति । क्रमयोगाच च वानरो नृपतिदनविविधभक्ष्योपचीय- " मानो वृद्धिम उपगतः । सकलराजलोकमान्यश् च संजातः । राजापि तं वानरम *अतिविश्वासाद् वात्सल्याच् च स्वखड्गधरं चकार । अथ तस्य राज्ञो गृहाभ्याशे *नानातरुखण्डमण्डितं 12 प्रमदवनम् अस्ति । तच् च तेन राज्ञा वसन्तागमे मधुकरकुलोपगीयमानमदनकीर्तिप्रसरं बहुकुसुमपरिमलसुगन्धि रमणीयम् अवलोक्य मन्मथाविष्टेनायमहिया सह तब प्रविशति स्म । सर्वो is ऽपि परिजनो हार एव स्थापितः । अथ कौतुकात् प्रमदवनं परिभ्रम्यावलोकयता श्रान्तेन राज्ञा वानरो ऽभिहितः । अहम अस्मिन पुष्पगृहे क्षणं स्वपिमि लग्नः । मम को ऽप्य् उपद्रवं 18 कुर्वाणम् त्वयाप्रमत्तेन प्रयत्नेन रक्षणीयः । इत्य् उक्ला राजा प्रसुप्तः । तस्य चोपरि पुष्पगन्धकस्तूरिकादिपरिमल लुब्धो मधुकरः समागत्य शिरसि निलीनः । तं दृष्ट्वा सरोषो वानरश चिन्तयाम 21 आस । कथं मम पश्यतो ऽपि क्षुद्रजन्तुनानेन राजा दश्यते । इति निवारयितुम् आरब्धः । अथ यदा निवार्यमाणो ऽपि भ्रमरः पुनः पुना राजानम् उपैति । तावत् कोपान्धो वानरः खड्गम 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org